SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥४२॥ वस्तुस्वरूपम्-अस्तित्वमपि विद्यते, अनुवृत्तिप्रत्ययहेतुः सत्तासम्बन्धोऽप्यस्ति, निःस्वरूपे शशविपाणादौ सत्तायाः समवायाभावात् । ____सामान्याऽऽदित्रिके कथं नानुवृत्तिप्रत्ययः?, इति चेद्ः बाधकसद्भावादिति ब्रूमः। तथाहि-सत्तायामपि | सत्तायोगाङ्गीकारे- अनवस्था । विशेषेषु पुनस्तदभ्युपगमे- व्यावृत्तिहेतुत्वलक्षणतत्स्वरूपहानिः । समवाये तु तत्कल्पनायां-सम्बन्धाऽभावः; केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते ?, समवायान्तराऽभावात् । तथा च प्रामाणिकप्रकाण्डमुदयनः "व्यक्तेरभेदस्तुल्यत्वं सरोज्यानवस्थितिः । रूपहानिरसम्बन्धो जातिवाधकसङ्ग्रहः" ॥१॥ इति । ततः स्थितमेतत्सतामपि स्यात् कचिदेव सत्तेति । तथा, चैतन्यमित्यादि, चैतन्यं-ज्ञानम् , आत्मनः- क्षेत्रज्ञान, अन्यद्-अत्यन्तव्यतिरिक्तम् , असमासकरणादत्यन्तमिति लभ्यते । अत्यन्तभेदे सति कथमात्मनः सम्बन्धि ज्ञानमिति व्यपदेशः १, इति पराऽऽशङ्कापरिहारार्थ औपाधिकमिति विशेषणद्वारेण हेत्वभिधानम् । उपाधेरागतमोपाधिकम्- समवायसम्ब-18 न्धलक्षणेनोपाधिना आत्मनि समवेतम् , आत्मनः स्वयं जडरूपत्वात् समवायसम्बन्धोपढौकितमिति यावत् । * यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा- भावाद्-बुद्ध्यादीनां नवानामात्मविशेषगुणानामुच्छेदावसरे आत्मनोऽप्युच्छेदः स्यात् । तदव्यतिरिक्तत्वात् ; ॥४२॥ Jain Education int onal For Private & Personal Use Only Alinelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy