SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ स्याद् __नाप्यक्रमेणार्थक्रिया क्षणिक संभवति । सोको बीजपूरादिक्षणो युगपदनेकान् रसादिक्षणान् जन- 18| यन् एकेन स्वभावेन जनयेत् , नानास्वभावैर्वा ?। यद्येकेन, तदा तेषां रसादिक्षणानामेकत्वं स्यात् ; एकख॥२१॥ भावजन्यत्वात् । अथ नानास्वभावैर्जनयति--किश्चिद्रूपादिकमुपादानभावेन, किश्चिद्रसादिकं सहकारित्वेन, इति चेत् ; तर्हि ते स्वभावास्तस्याऽऽत्मभूता अनात्मभूता वा । अनात्मभूताश्चेत् स्वभावत्वहानिः। यद्यात्मभूताः, तईि तस्यानेकत्वम् : अनेकखभावत्वात् । स्वभावानां वा एकत्वं प्रसज्येत; तदव्यतिरिक्तत्वात् तेषाः तस्य चैकत्वात् । . अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कटं च कथमिष्यते क्षणिकवादिना । अथ ] | नित्यमेकरूपत्वादक्रम, अक्रमाच्च क्रमिणां नानाकार्याणां कथमुत्पत्तिः, इति चेत् , अहो स्वपक्षपाती देवाना प्रियः यः खलु स्वयमेकस्माद् निरंशाद् रूपादिक्षणलक्षणात् कारणाद् युगपदनेककारणसाध्यान्यनेककार्याa ण्यङ्गीकुर्वाणोऽपि, परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भाक्यति । तस्मात् क्षणिक-18 18 स्यापि भावस्याऽक्रमेणार्थक्रिया दुर्घटा। . इत्यनित्यैकान्तादपि क्रमाक्रमयोप्पकयोनिवृत्त्यैव व्याप्याऽयक्रियाऽपि व्यावर्तते; तयावृत्तौ च 1 सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तते । इत्येकान्तानित्यवादोऽपि न रमणीयः । ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy