SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ स्थाद् स्त्वमेवाऽतस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ।। ॥२०॥ इदं प्रत्यक्षोपलभ्यमानं जगद् विश्वम्- उपचाराद् जगद्वर्ती जनः । हतपरैः-हता अधमा ये परे तीर्थान्तरीया हतपरे, तैर्मायाकारैरिव ऐन्द्रजालिकैरिव-शाम्बरीयप्रयोगनिपुणैरिव इति यावत , अन्धतमसे निविडान्धकारे, ' हा इति खेदे ' विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः । अन्धं करोतीत्यन्धयति, | अन्धयतीत्यन्धम् , तच्च तत्तमश्वेत्यन्धतमसम् “समवान्धात् तमसः" ॥७३८०॥ इत्यत्प्रत्ययः, तस्मिन् अन्ध१ तमसे । कथंभूतेऽन्धतमसे इति?, द्रव्यान्धकारव्यवच्छेदार्थमाह- 'तत्त्वाऽतत्त्वव्यतिकरकराले' । तत्त्वं चाऽतत्त्वं च तत्त्वातत्वे तयोव्यतिकरो व्यतिकीर्णता व्यामिश्रता स्वभावविनिमयस्तत्वाऽतत्त्वव्यतिकरस्तेन कराले भयङ्करे । यत्राऽन्धतमसे तत्त्वेऽतत्त्वाभिनिवेशः, अतत्त्वे च तत्त्वाभिनिवेश इत्येवंरूपो व्यतिकरः संजायत इत्यर्थः। अनेन च विशेषणेन परमार्थतो मिथ्यात्वमोहनीयमेव अन्धतमसम् , तस्यैव ईदृक्षलक्षणत्वात् । तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः "अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात्" ॥१॥ ततोऽयमर्थः- यथा किल ऐन्द्रजालिकास्तथाविधसुशिक्षितपरव्यामोहनकलाप्रपश्चाः तथाविधमौषधीम१ स्वोपज्ञयोगशास्त्र द्वितीयप्रकाशे । 10॥२०८॥ Jain Education National For Private & Personal Use Only weglhelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy