SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१८७॥ व्यवस्थापयति, दुर्नयत्वं चास्य मिथ्यारूपत्वात् , मिथ्यारूपत्वं च तत्र धर्मान्तराणां सतामपि निवात् ।। ___ तथा 'सद्' इति उल्लेखवान् नयः, स हि 'अस्ति घटः' इति घटे स्वाभिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मेषु । गजनिमीलिकामालम्बते । न चास्य दुर्नयत्वं धर्मान्तराऽतिरस्कारात्, न च प्रमाणत्वं स्याच्छन्देन अलाञ्छितत्वात् । | स्यात्सदिति- 'स्यात्कथञ्चित् , सद् वस्तु', इति प्रमाणम् । प्रमाणत्वं चाऽस्य दृष्टेष्टाऽबाधितत्वाद् विपक्षे बाधकसद्भावाच । सर्व हि वस्तु स्वरूपेण सत्, पररूपेण चाऽसद् इति असकृदुक्तम् । सदिति दिमात्रदेश| नार्थम् , अनया दिशा असत्त्व-नित्यत्वा-ऽनित्यत्व-वक्तव्यत्वा-ऽवक्तव्यत्व-सामान्य-विशेषादि अपि बोद्धव्यम् । | इत्थं वस्तुस्वरूपमाख्याय स्तुतिमाह-'यथार्थदर्शी' इत्यादि । दुर्नीतिपथं दुर्नयमार्गम् , तुशब्दस्य अवधारणार्थस्य भिन्नक्रमत्वात् त्वमेव आस्थः त्वमेन निराकृतवान् , न तीर्थान्तरदैवतानि । केन कृत्वा ?, नय-प्रमाणपथेन, नय-प्रमाणे उक्तस्वरूपे, तयोर्मार्गेण प्रचारेण । यतस्त्वं यथार्थदर्शी- यथार्थोऽस्ति तथैव ।। पश्यतीत्येवंशीलो यथार्थदर्शी विमलकेवलज्योतिषा यथावस्थितवस्तुदर्शी, तीर्थान्तरशास्तारस्तु रागादिदोषकालुष्यकलङ्कितत्वेन तथाविधज्ञानाभावाद् न यथार्थदर्शिनः, ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विनः । न हि स्वयमनयप्रवृत्तः परेषामनयं निषेधुमुधुरतां धत्ते । इदमुक्तं भवति- यथा कश्चित् 18॥१८७॥ सन्मार्गवेदी परोपकारदुर्ललितः पुरुषश्चौर-श्वापद-कण्टकायाकर्णि मार्ग परित्याज्य पथिकानां गुणदोषोभय ००००००००००००००००००००००००००००००००००००००००००० Jain Educationa ltional For Private & Personal Use Only walinelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy