SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स्याद् अनित्यवादी नित्यवादिनं प्रति पुनरेवं प्रमाणयति- सर्व क्षणिक सत्त्वात् , अक्षणिक क्रम-योगपद्या भ्यामर्थक्रियाविरोधाद् अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् , ततोऽर्थक्रिया व्यावर्त्तमाना स्वक्रोडी॥१८॥ कृतां सत्ता व्यावर्त्तयेदिति क्षणिकसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियां क्रमेण प्रवर्तयितुमुत्सहते, पूर्वार्थक्रि-18 याकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमेण प्रवृत्तः, अन्यथा पूर्व क्रियाकरणाऽविरामप्रसङ्गात् , तत्स्व-18 भावप्रच्यवे च नित्यता प्रयाति; अतादत्रस्थ्यस्याऽनित्यतालक्षणत्वात् । अथ नित्योऽपि क्रमवर्तिनं सहका- 18 रिकारणमथमुदीक्षमाणस्तावदासीत , पश्चात तमासाद्य क्रमेण कार्य कुयादिति चेत् । न, सहकारिकारणस्य | नित्येऽर्थेऽकिञ्चित्करत्वात , अकिञ्चित्करस्याऽपि प्रतीक्षणेऽनवस्थाप्रसङ्गात । नापि योगपद्येन नित्योऽर्थोऽ- 1 थक्रियां कुरुते; अध्यक्षविरोधात्-न ह्यककालं सकलाः क्रियाः प्रारममाणः कश्चिदुपलभ्यते, करोतु वा 8 तथाऽप्याऽऽद्यक्षणे एव सकलक्रियापरिसमाप्तेर्द्वितीयादिक्षणेषु अकुर्वाणस्याऽनित्यता बलाद् आढौकते कर-18 Aणाऽकरणयोरेकस्मिन् विरोधाद् इति । तदेवमेकान्तद्वयेऽपि ये हेतवस्ते युक्तिसाम्याद् विरुद्धं न व्यभिचर-18 न्तीत्यविचारितरमणीयतया मुग्धजनस्य ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति । अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः । उपलक्षणत्वाच्च सामान्यविशेषायेकान्तवादा अपि मिथस्तुल्यदोषतया विरुद्धा व्यभिचारिण एव हेतूनुपस्पृशन्तीति परिभावनीयम् । ॥१८॥ धियोऽन्धत्वमिति मतम् । Jain Education tional For Private & Personal Use Only x lainelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy