SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१५७॥ ܂ यित्वात् त्रिकालवर्ति यदेकं द्रव्यं स्थिरैकम् । एकशब्दोज साधारणवाची । उत्पादे विनाशे च तत्साधारणम् , अन्वयिद्रव्यत्वात । यथा चैत्रमैत्रयोरेका जननी साधारणेत्यर्थः। इत्थमेव हि तयोरेकाधिकरणता; पर्यायाणां कथञ्चिदनेकत्वेऽपि तस्य कथञ्चिदेकत्वात् । एवं त्रयात्मकं वस्तु, अध्यक्षमपीक्षमाणः प्रत्यक्षमवलोकयन् अपि, हे जिन! रोगादिजैत्र!, त्वदाज्ञाम्- आ सामस्त्यनानन्तधर्मविशिष्टतया ज्ञायन्तेऽवबुद्ध्यन्ते || जीवाऽजीवादयः पदार्था यया सा आज्ञा आगमः शासनं, तवाऽज्ञा त्वदाज्ञा तां त्वदाहाभवत्प्रणीतस्याद्वाद| मुद्राम् , यः कश्चिदविवेकी, अवमन्यतेऽवजानाति, जात्यपेक्षमेकवचनमवज्ञया वा; स पुरुषपशुर्वातकी पिशा चकी वा- वातो रोगविशेषोऽस्याऽस्तीति वातकी वातकीव वातकी, वातूल इत्यर्थः, एवं पिशाचकीव पि- | | शाचकी, भूताविष्ट इत्यर्थः । अत्र वाशब्दः समुच्चयार्थः, उपमानार्थो वा । स पुरुषापशदो वातकिपिशाच- || किभ्यामधिरोहति तुलामित्यर्थः, “वातातीसारपिशाचात्कश्चान्तः"॥७।२।६१ ॥ इत्यनेन मत्वर्थीयः, कश्चान्तः, एवं पिशाचकीत्यपिः यथा किल वातेन पिशाचेन वाऽऽक्रान्तवपर्वस्ततत्त्वं साक्षात्कर्वन्नपि | तदावेशवशात् अन्यथा प्रतिपद्यते, एवमयमप्येकान्तवादापस्मारपरवश इति । अत्र च जिनेति साभिप्रायम् - रागादिजेतृत्वाद् हि जिनः, ततश्च यः किल विगलितदोषकालुष्यतयाऽवधेयवचनस्यापि तत्रभवतः शासनमवमन्यते, तस्य कथं नोन्मत्ततेति भावः । नाथ ! हे स्वामिन् !, ॥१५७॥ अलब्धस्य सम्यग्दर्शनादेलम्भकतया, लब्धस्य च तस्यैव निरतिचारपरिपालनोपदेशदायितया च योग- 8 Jain Education rational For Private & Personal Use Only nelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy