SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१४३॥ किञ्च, इदं प्रमात्रादीनामवास्तवत्वं शून्यवादिना वस्तुवृत्त्या तावदेष्टव्यम् । तच्चासौ प्रमाणात् | अभिमन्यते, अप्रमाणाद्वान तावदप्रमाणात , तस्याकिश्चित्करत्वात् । अथ प्रमाणात, तन्न । अवास्तवत्वग्राहकं प्रमाणं सांवृतम् , असांकृतं वा स्यात् । यदि सांवृतम् , कथं तस्मादवास्तवाद् वास्तवस्य शून्यवादस्य सिद्धिः ?; तथा तदेसिद्धौ च वास्तव एव समस्तोऽपि प्रमात्रादिव्यवहारःप्राप्तः। अथ तद्ग्राहकं प्रमाणं खयमसांवृतम् , तर्हि क्षीणा प्रमात्रादिव्यवहारावास्तवत्वप्रतिज्ञा, तेनैव व्यभिचारात् । तदेवं पक्षद्वयेऽपि 'इतो व्याघ्र इतस्तटी' इति न्यायेन व्यक्त एव परमार्थतः स्वाभिमतसिद्धिविरोधः । इति काव्यार्थः ।। अधुना क्षणिकवादिन ऐहिकाऽऽमुष्मिकव्यवहाराऽनुपपन्नार्थसमर्थनमविभृश्यकारितं दर्शयन्नाह कृतप्रणाशा-ऽकृतकर्मभोग-भव-प्रमोक्ष-स्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो! महासाहसिकः परस्ते ॥१८॥ व्याख्या कृतप्रणाशदोषम् , अकृतकर्मभोगदोषम् , भवभङ्गदोषम् , प्रमोक्षभङ्गदोषम् , स्मृतिभङ्गदोषमित्येतान् || दोषान् ; साक्षादित्यनुभवसिद्धान् , उपेक्ष्याऽनादृत्य,साक्षात् कुर्वन्नपि गजनिमीलिकामवलम्बमानः; सर्वभावानां | क्षणभङ्गम्-उदयानन्तरविनाशरूपा क्षणक्षयिताम् , इच्छन् प्रतिपद्यमानः,ते तव, परः प्रतिपक्षी वैनाशिकः, सौगत | ॥१४३॥ १ शून्यवादाऽसिदौ। 60००००००००००००००००००००००००००००००००००००००००००० Jain Education National Clinelibrary.org For Private & Personal Use Only
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy