SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ स्याद् 1 कप-च्छेद-तापलक्षणोपाधित्रयविशुद्धत्वात् । कषादीनां च स्वरूपं पुरस्ताद्वक्ष्यामः । ॥१४॥ न च वाच्यमाप्तः क्षीणसर्वदोषः; तथाविधं चाशत्वं कस्यापि नास्तीति । यतः-रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते, अस्मदादिषु तदुच्छेदप्रकर्षाऽपकर्षोपलम्भाव, सूर्यायावरकजलदपटलयत् । तथा चाहुः "देशतो नाशिनो भावा दृष्टा निखिलनश्वराः । मेघपङ्क्त्यादयो यद्वत् एवं रागादयो यताः" ॥१॥ इति । | यस्य च निरवयवतयैते विलीनाः, स एवाप्तो भगवान् सर्वज्ञः। अथ अनादित्वाद् रागादीनां कथं प्रक्षयः ?, इति । ४ चेत् । न उपायतस्तद्भावात् । अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलभात् । तद्वदेवाऽनादीना मपि रागादिदोषाणां प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः। क्षीणदोषस्य च केवलज्ञानाऽव्यभिचारात् सर्व ज्ञत्वम् । तत्सिद्धिस्तु-ज्ञानतारतम्यं कचिद् विश्रान्तम्,तारतम्यत्वात् ,आकाशे परिमाणतारतम्यवत् । तथासूक्ष्मा18न्तरितदूरार्थाः, कस्यचित्प्रत्यक्षाः, अनुमेयत्वात् , क्षितिघरकन्धराधिकरणधूमध्वजवत् । एवं चन्द्रसूर्योपरा| गादिसूचकज्योतिर्ज्ञानाऽविसंवादान्यथाऽनुपपत्तिप्रभृतयोऽपि हेरावो वाच्याः। तदेवमानेन सर्वपिदा प्रणीतआगमः प्रमाणमेव । तदप्रामाण्यं हि प्रणायकदोवनियन्धनम् :"रागाद् वा द्वेषाद् या गोडा वा वाध्यमुच्यते छनृतम् । ॥१४॥ यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ?" ॥ १ ॥ इति वचनात् । Jain Education Conal For Private & Personal Use Only w elibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy