________________
स्याद्०
॥१३१॥
तेषामपि कथञ्चित् प्रत्यक्षत्वं, योगिप्रत्यक्षेण च साक्षात्प्रत्यक्षत्वमवसेयम् । अनुपलब्धिस्तु सौक्ष्म्यात् । अनुमानादपि तत्सिद्धिः, यथा - सन्ति परमाणवः, स्थूलावयविनिष्पच्यन्यथानुपपत्तेः, इत्यन्तर्व्याप्तिः । न चाणुभ्यः स्थूलोत्पाद इत्येकान्तः, स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भावविभावनात् ; आत्माकाशादेरपुद्गल कार्यत्वकक्षीकाराच्च । यत्र पुनरणुभ्यस्तदुत्पत्तिस्तत्र तत्तत्कालादिसामग्री सव्यपेक्षक्रियावशात् प्रादुर्भूतं संयोगातिशयमपेक्ष्येयमवितथैव । यदपि किञ्चायमनेकावयवाधार इत्यादि न्यगादि, तत्रापि कथञ्चिद्विरोध्यनेकावयवाविष्वग्भूतवृत्तिरवयव्यभिधीयते । तत्र च यद्विरोध्यनेकावयवाधारतायां विरुद्धधर्माध्यासनमभिहितं तत्कथञ्चिदुपेयत एव; तावदवयवात्मकस्य तस्यापि कथश्चिदनेकरूपत्वात् । यच्चोपन्यस्तम्- अपिच, असौ तेषु वर्तमानः कार्त्स्न्येनैकदेशेन वा वर्तेतेत्यादि । तत्रापि विकल्पद्वयानभ्युपगम एवोत्तरम् ; अविष्वग्भाdarsarविनोऽवयवेषु वृत्तेः स्वीकारात् । किञ्च यदि बाह्योऽर्थो नास्ति, किमिदानीं नियताकारं प्रतीयते 'नीलमेतत् ? इति ? | विज्ञानाकारोऽयमिति चेत् । न, ज्ञानाद् वहिर्भूतस्य संवेदनात् । ज्ञानाकारत्वे तु 'अहं नीलम्' इति प्रतीतिः स्यान्न तु ' इदं नीलम् ' इति । ज्ञानानां प्रत्येकमाकारभेदात् कस्यचित् ' अहम्' इति प्रतिभासः, कस्यचित् 'नीलमेतत्' इति चेत् । नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्वाभावात् । तथा च यदेकेनाहमिति प्रतीयते तदेवापरेण त्वमिति प्रतीयते । नीलाद्याकारस्तु व्यवस्थितः सर्वैरप्येकरूपतया ग्रहणात् । भक्षितहत्पूरादिभिस्तु यद्यपि नीलादिकं पीतादितया गृह्यते, तथापि तेन न व्यभि -
Jain Education national
For Private & Personal Use Only
॥१३१॥
ainelibrary.org