SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ स्याद्० स्मृत्यादेः प्रमाणस्याप्रामाण्यप्रसङ्गः, तस्यार्थाऽजन्यत्वात् । न च स्मृतिर्न प्रमाणम् , अनुमानप्रमाणप्राणभूत॥१२६॥ त्वात् साध्यसाधनसंवन्धस्मरणपूर्वकत्वात् तस्य । जनकमेव च चेद् ग्राह्यम् , तदा स्वसंवेदनस्य कथं ग्राहकत्वम् ? तस्य हि ग्राह्य स्वरूपमेव । न च तेन तज्जन्यते, स्वात्मनि क्रियाविरोधात् । तस्मात् स्वसामग्रीप्रभवयोर्घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यप्रकाशकभावसंभवाद् न ज्ञाननिमित्तत्वमर्थस्य । नन्वर्थाऽजन्यत्वे ज्ञानस्य कथं प्रतिनियतकर्मव्यवस्था ? तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्याऽतदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्यविशेषात् सर्व ग्रहणं प्रसज्येत । नैवम : तदत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वो| पपत्तेः । तदुत्पत्तावपि च योग्यताऽवश्यमेष्टव्या; अन्यथाऽशेषार्थसानिध्ये तत्तदाऽसांनिध्येऽपि कुतश्चि॥ देवाऽर्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभागः । __तदाकारता त्वाकारसंक्रान्त्या तावदनुपपन्ना, अर्थस्य निराकारत्वप्रसङ्गात् , ज्ञानस्य साकारत्वप्र18 सङ्गाच्च । अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृश्यम् । इत्यर्थविशेषग्रहणपरिणाम एव साऽभ्युपेया । ततः। " अर्थेन घटयत्येनां न हि मुक्त्वाऽर्थरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता "॥१॥ ! इति यत्किञ्चिदेतत् । OAD 1- १२६॥ Jain Education alsonal For Private & Personal Use Only wwalyalhelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy