________________
स्याद्०
॥१२२॥
स्थितेः प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः यः प्रमिमीते स एवोपादत्ते, परित्यजति, उपेक्षते चेति सर्वव्यवहारिभिरस्खलितमनुभवात् ; इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्यत - इत्यलम् ।
अथवा पूर्वार्धमिदमन्यथा व्याख्येयम् । सौगताः किलेत्थं प्रमाणयन्ति - सर्व सत् क्षणिकम् ; यतः सर्व तावद् घटादिकं वस्तु मुद्गरादिसंनिधौ नाशं गच्छद् दृश्यते । तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चेत्स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन विनष्टव्यम्, इति व्यक्तमस्य क्षणिकत्वम् । अथेदृश एव स्वभावस्तस्य स्वहेतुतो जातो यत्कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुद्ररादिसंनिधानेऽपि स एष एव तस्य स्वभावः, इति पुनरप्येतेन तावन्तमेव कालं स्थातव्यम् ; इति नैव विनश्येदिति । सोऽयमदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्यायः । तस्मात् क्षणद्वयस्थायित्वेनाप्युत्पत्तौ प्रथमक्षणवद् द्वितीयेऽपि क्षणे क्षणद्वयस्थायित्वात् पुनरपरक्षणद्वयमवतिष्ठेत । एवं तृतीयेऽपि क्षणे तत्स्वभावत्वाद् नैव विनश्येदिति ।
स्यादेतत्, स्थावरमेव तत् स्वहेतोर्जातम्, परं बलेन विरोधकेन मुद्गरादिना विनाश्यत इति । तदसत् । कथं पुनरेतद् घटिव्यते " न च तद् विनश्यति स्थावरत्वात् विनाशश्व तस्य विरोधिना बलेन क्रियते " इति । न ह्येतत्सम्भवति- जीवति च देवदत्तो, मरणं चास्य भवतीति । अथ विनश्यति, तर्हि कथ
,
Jain Education International
For Private & Personal Use Only
८॥१२२॥
www.jainelibrary.org