________________
स्याद्०
॥११९॥
Jain Education
इदानीं ये प्रमाणादेकान्तेनाभिन्नं प्रमाणफलमाहुः, ये च वाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुवते, तन्मतस्य विचार्यमाणत्वे विशरारुतामाह
न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद् विलूनशीर्ण सुगतेन्द्रजालम् ॥ १६॥
arreer - बौद्धाः किल प्रमाणात् तत्फलमेकान्तेनाऽभिन्नं मन्यन्ते । तथा च तत्सिद्धान्त:-- “ उभयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात् " । उभयत्रेति प्रत्यक्षेऽनुमाने च तदेव ज्ञानं प्रत्यक्षानुमानलक्षणं फलं कार्यम् ; कुतः ?, अधिगमरूपत्वादिति परिच्छेदरूपत्वात् ; तथाहि - परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदादृतेऽन्यद् ज्ञानफलम् ; अभिन्नाधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति । एतच्च न समीचीनम् ; यतो यद्यस्मादेकान्तेनाऽभिन्नं तत्तेन सहैवोत्पद्यते यथा घटेन घटत्वम् । तैश्व प्रमाणफलयोः कार्यकारणभावोऽभ्युपगम्यते - प्रमाणं कारणं फलं कार्यमिति । स चैकान्ताऽभेदे न घटते । नहि युगपदुत्पद्यमानयोस्तयोः सव्येतर गोविषाणयोरिव कार्यकारणभावो युक्तः, नियतप्राकालभावित्वात् कार - णस्य ; नियतोत्तरकालभावित्वात् कार्यस्य । एतदेवाह - "न तुल्यकालः फलहेतुभावः" इति । फलं कार्य, हेतुः कारणम्, तयोर्भावः स्वरूपं, कार्यकारणभावः स तुल्यकालः समानकालो न युज्यत इत्यर्थः ।
tional
For Private & Personal Use Only
॥ ११९ ॥
Phelibrary.org