________________
स्याद्०
॥९५॥
00000
ब्रह्मविवर्ताः, सत्त्वैकरूपेणान्वितत्वात् । यद् यद्रूपणान्वितं तत् तदात्मकमेव । यथा घटघटीशरावोदश्चनादयो मृद्रूपेणैकेनान्विता मृद्विवर्ताः; सच्चैकरूपेणान्वितं च सकलं वस्तु, इति सिद्धं ब्रह्मविवर्तित्वं निखिलभेदानामिति ।
तदेतत् सर्वं मदिरारसाऽऽस्वादगद्गदोद्गदितमिवाऽऽभासते, विचारासहत्वात् । सर्वे हि वस्तु प्रमाणसिद्धं, न तु वाङ्मात्रेण; अद्वैतमते च प्रमाणमेव नास्ति, तत्सद्भावे द्वैतप्रसङ्गात् ; अद्वैतसाधकस्य प्रमाणस्य द्वितीयस्य सद्भावात् । अथ मतम् – लोकप्रत्यायनाय तदपेक्षया प्रमाणमप्यभ्युपगम्यते । तदसत् ; तन्मते लोकस्यैवासम्भवात् एकस्यैव नित्यनिरंशस्य परब्रह्मण एव सखात् ।
अथास्तु यथाकथञ्चित् प्रमाणमपि । तत्किं प्रत्यक्षमनुमानमागमो वा तत्साधकं प्रमाणमुररीक्रियते ? । न तावत् प्रत्यक्षम् ; तस्य समस्तवस्तुजातगत भेदस्यैव प्रकाशकत्वात् ; आबालगोपालं तथैव प्रतिभासनात् । यच्च 'निर्विकल्पकं प्रत्यक्षं तदावेदकम्' इत्युक्तम् ; तदपि न सम्यक् ; तस्य प्रामाण्यानभ्युपगमात्; सर्वस्यापि प्रमाणतत्त्वस्य व्यवसायाऽऽत्मकस्यैवाविसंवादकत्वेन प्रामाण्योपपत्तेः । सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परमब्रह्मणः स्वमेऽप्यप्रतिभासनात् ।
यदप्युक्तं- “आहुर्विधातृ प्रत्यक्षम् " इत्यादि । तदपि न पेशलम् ; प्रत्यक्षेण ह्यनुवृत्तव्यावृत्ताकारात्मकवस्तुन एव प्रकाशनात् ; एतच्च प्रागेव क्षुण्णम् । न ह्यनुस्यूतमेकमखण्डं सत्तामात्रं विशेषनिरपेक्षं सामान्यं
Jain Education Intellinal
For Private & Personal Use Only
|॥९५॥
inelibrary.org