________________
उपस० ३ Jain Education Inter
देवि सपुत्ति सवाहणि सपरिकरि श्वेताभरण - वस्त्रविभूषिते अत्र मण्डले आगच्छ आगच्छ, स्वस्थाने तिष्ठ तिष्ठ स्वाहा । 'तुह सम्मने लङ्के' गाथयाssवेष्ट्य त्रिगुणमायया वेष्टयेत् ।
इदं चक्रं पृथ्वीमण्डले पूर्वोक्ते स्थापयेत् इति चिन्तामणिचक्रस्थापना विधिः । इदं चक्रं कुङ्कुम - गोरोचनादिद्रव्यैस्ता म्रभाजने, भूर्ये वाऽऽलिख्य श्वेतवस्त्राभरण - माल्य - विलेपनजुषा पुंसा रहसि निविश्य पूर्व त्रिसमध्यमष्टोत्तरशतं प्रधानाऽम्लानश्वेतपुष्पैः पूज्यमानं सर्वामयप्रशमनम्, सर्वदुष्टभयहरम्, कीर्ति - यश-स्तुभगतासंपादनम्, सर्वसंपत्करम्, चिन्तातीतार्थसाधकं भवत्यसंशयम्, अथवा रक्षाविषयं कुङ्कुमादिद्रव्यैर्भूर्ये लिखितं कण्ठे घृतं सुगन्धपुष्पसहस्रजप्तं नृपाऽग्नि- चौर - शाकिन्यादिक्षुद्रोपद्रवं निवारयति । पूजामन्त्रः पूर्वोक्त एव अत्रापि ज्ञेयः, इति चिन्तामणिचक्रौ समाप्तौ द्वितीयगाथाऽपि समाप्ता ॥
अथ तृतीयगाथामाह -
• चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नर- तिरिएसु वि जीवा पार्वति न दुक्ख दोगच्चं ३ तिष्ठतु आस्ताम्, कोऽसौ ? मन्त्रः, युष्माकं प्रणामोऽपि बहुफलचैव यस्माद् नरेषु, तिर्यक्षु जीवा न * तिष्ठतु दूरे मन्त्रः, तत्र प्रणामोऽपि बहुफलो भवति । नर- तिर्यक्षु अपि जीवाः प्राप्नुवन्ति न दुःख - दौर्गत्यम् ॥ ३ ॥
For Private & Personal Use Only
01 www.jainelibrary.org