SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो, गच्छः खरतराभिधः॥३॥ तेषामाचार्यवर्याणां, मान्यानां भूभृतामपि । कुष्ठव्याघिरभूदेहे, प्राच्यकर्माऽनुभावतः॥४॥ ततः श्रीगुर्जरत्रायां संभाणकपुरं प्रति । शत्यरूपत्वेऽपि ते चक्रुर्विहारं मुनिपुङ्गवाः ॥५॥रोगग्रस्ततयाऽत्यन्तं, सम्भाव्य स्वायुषः क्षयम् । मिथ्यादुष्कृतदानार्थ, सर्व सङ्घ समाह्वयत् ॥ ६॥ तस्यामेव निशीथिन्यां, स्वप्ने शासनदेवता । प्रभो ! स्वपिषि जागर्षि, किं ? वेत्याह गुरुं प्रति ॥ ७॥रोगेण क्वास्ति ? मे निद्रे-त्युक्ते देवी गुरुं जगौ । उन्मोटयत तयेताः सूत्रस्य नव कुकुटीः (कुत्कुटीः१)॥८॥ शरभावात्किं कुर्वे?, साऽऽह मैवं वचो वद । त्वमद्यापि नवाजया यद्-वृत्तिः स्फीताः करिष्यसि ॥९॥ श्रीसुधर्मकृतग्रन्थान् , कथमर्थापयाम्यहम् । पङ्गोः प्रत्येति को नाम?, मेर्वारोहणकौशलम् ॥१०॥ देव्याह यत्र सन्देहाः, स्मर्तव्याऽहं त्वया तदा । यथा भिनद्मि तान् सर्वान् , पृष्ट्वा - सीमन्धरं जिनम् ॥ ११ ॥ रोगग्रस्तः कथं मातः !, करोमि विवृतीरहम् ? । माऽवादीस्तत्प्रतीकारे, किन्तूपायमिमं शृणु M॥१२॥ अस्ति स्तम्भनकग्रामे, सेढीनाममहानदी । तस्यां श्रीपार्श्वनाथस्य, प्रतिमाऽस्त्यतिशायिनी ॥ १३ ॥ यत्र च| क्षरति क्षीरं, प्रत्यहं कपिलेति गौः। तत्खुरोत्खातभूमौ च, द्रक्ष्यसि प्रतिमामुखम् ॥१४॥ तदेवं सप्रभावं तद्-बिम्ब ६ वंदस्व भावतः। यथा त्वं स्वस्थदेहः स्याः, इति प्रोच्य गता सुरी ॥ १५॥ प्रातर्जागरितास्तेऽथ, स्वप्नार्थमवबुध्य च । समं समग्रसङ्घन, चेलुः स्तम्भनकं प्रति ॥ १६ ॥ तत्र गत्वा यथा स्थाने, प्रेक्ष्य पार्श्वजिनेश्वरम् । उल्लसत्सर्वरोमाञ्चा, एवं ते तुष्टवुर्मुदा ॥१७॥ “जय तिहुयणमरकप्परुक्ख जय जिणधन्नंतरि, जय तिहुयणकल्लाणकोस दुरिअक्करिकेसरि । तिहुयणजणअविलंधियाण भुवणत्तयसामिय, कुणसु सुहाई जिणेसपास थंभणयपुरद्विय ॥१॥" वृत्ते तु षोडशे साऽर्चा, सर्वाङ्गं प्रकटाऽभ Ss Jain Education for For Private & Personal use only W ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy