SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ HOSSEIS UGROSHARES __ अस्मिन् कायोत्सर्गे लोगस्स ४ पारिते लोगस्स १ तत उपविश्य नमस्कारशक्रस्तवादिकथनपूर्व जयवीयरायपर्यन्तं वाच्यं । ततः संपूर्णाङ्गोपाङ्गाः सभार्याः सुशीलाः सपुत्राः समृद्धा बद्धहस्तमहुलीदवरका गुणनभणनविचक्षणा अष्टौ इन्द्रस्थानीयाः परिहितधौतिका आकार्यन्ते, तत्र द्वौ हस्तयोः कलशं गृहीत्वा तिष्ठत, एको धूपं ददाति, एकः कुसुमचन्दनवासक्षेपं करोति, अन्ये चत्वारो मधुरस्वरेण शान्तिपूर्वकं सप्तस्मरणादि गुणयन्ति । तथा द्वौ कलशधारको कुण्डिकातः कलशान् भृत्वा सप्तनमस्कारपूर्व सप्तजलधारा दत्तः पश्चात् नमोऽहत्सिद्धाचार्योपाध्यायेति पूर्व अजितशान्तिस्तवः पठ्यते,8 पदे पदे जलधारादानं एवमग्रेतनस्मरणे अपि, भक्तामरशान्तिद्वयादीन्यपि । एवमन्योऽपि सर्वसंघः सप्तस्मरणादि गुणयति पश्चाद् भृते मूलकलशे पूर्व रक्षित श्रीपार्श्वनाथप्रक्षालनपानीयमपि कलशमध्ये क्षिप्यते, ततो मङ्गलप्रदीपं भ्रामयित्वा चेलोत्क्षेपैः पुष्पधूपादिदानैः, सम्मान्यश्रीदिक्पतीनां विसर्गम् । कृत्वा शेषान् शेषदिव्यावतारान्, प्राप्तानारात् प्रेषयेत् स्वाधिवासान् ॥१॥ अर्हदभिषेकदर्शित-सान्निध्यनिरस्तकल्मषोल्लाघाः। गच्छन्ति यथास्थाने, ये केचिदुपागता देवाः॥२॥ शक्राद्या लोकपाला दिशि विदिशि गताः शुद्धसद्धर्मसक्काः, आयाताः स्नात्रकाले कलशहृतिकृते तीर्थनाथस्य भक्त्या। न्यस्ता शेषाऽऽपदाद्या विहितशिवसुखाः स्वास्पदं सांप्रतं ते, स्नात्रे पूजामवाप्य स्वमपि कृतमुदो यान्तु कल्याणभाजः॥३॥ - अनेन पद्यत्रयेण दिक्पालविसर्जनं क्रियते, पश्चात् सर्वोऽपि संघो देवगृहे निकरादानपूर्व शान्तिजलं केन्दुकसत्क६ महुलीसूत्रं च लाति, महुलीसूत्रं हस्तादौ बध्यते, कलशमध्याच्छान्तिजलं गृहीत्वा सर्वत्र गृहादौ प्रक्षिप्यते, ततः संघ Jain Education Inter aadivate & Personal use only Allww.jainelibrary.org 283
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy