________________
RACK
च दधिकृता कृता ज्ञेया।यदुक्तं योगविधौ-'तदिवसकया दहीकया आसुरी न कप्पइ जोगवाहीणमिति' अतः काञ्जिकवट|| कपानीयभक्षणेऽपि न दोषः ४२ आम्लिकापानकं चिंचापानकं तद् आदिः यस्य तद् तथा, आदिशब्दात् ४३ द्राक्षापानिकं ४४ नालिकेरपानकं ४५ खजूरपानकं ४६ गुडपानकं ४७ किलाटिका फेदहडिनामिका ४८ दुग्धसिद्धद्राक्षा ४९ खुडुहुडी ५० खारिक ५१ मख ५२ वटकादिव्यञ्जनानि ५३ तन्दुलक्कथितं दुग्धं पेया इत्यर्थः। अल्पैः षष्टिकादितन्दुलैः समं पक्कमि त्यर्थः। इदं तु तलस्थितसहपक्कं तन्दुलादीनामुपरि चत्वारि अङ्गलानि यावत् वृद्धं ज्ञेयं, तदूर्ध्व वर्धमानं विकृतिरेव, क्षैरेयी तु सान्द्रा भवतीति न तया पौनरुक्त्यं ५४ हस्तविलोडितो निर्जलो दधिघोलः, स तु विकृतिरेव, परं यो हस्तविलोडितः सजलो दधिघोलः स उत्कृष्टद्रव्यं ५५ गुडमाधुरा५६ शिखरणी ५७ निर्भञ्जनानि ५८ इत्यादीनि ज्ञेयानि । अत्र पूर्व नामग्राहं अनेकानि उत्कृष्टद्रव्याणि उक्तानि । अथ एषामेव विकृतिनिष्पन्नानां नानादेशजत्वेन दुर्लक्षाणां सुखावबोधार्थ व्यापकलक्षणमाह___ “विगई दवेण हया, जातं उक्कोसिअंभवे दबं।” 'विकृतिः' क्षीरादिका द्रव्येण तन्दुलादिना हता भग्ना, मोरिता निवर्वीयर्थीकृतेति यावत् , या काचन पायसादि उत्कर्षितं उत्कर्षितसंज्ञं भवेत् ॥ 'द्रव्यम्' उत्पन्नरसवीर्यविपाकान्तरत्वात् यथा मथितं खण्डादिरसेन हतं शिखरणी १ घृतं कणिक्कादिना मिश्रितं कुलरिः, चूरिमं वा २ वटकादि पक्वान्नं काञ्जिकादिनोपहतं काञ्जिकवटिकादीनि, पर्पटसुकुमारिकादिरसेणोपहतं तैलं घृतं वा निर्भञ्जनं ४शुण्ठीचूर्णरसेन हतो गुडपाको गुडपपेटिका ५] इत्यर्थः ॥ पुनरुत्कटद्रव्यविस्तराधिकारमिच्छता सन्देहदोलावली-सूत्रवृत्तिप्रमुखाः ग्रन्थाः द्रष्टव्याः ॥ ८८॥
॥ इति उत्कटद्रव्याधिकारः ॥ ८८॥
Jain Education Inte
2
e
www.jainelibrary.org
& Personal use only