SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna अथ नित्यकर्तव्यतामाह-सा नित्यकर्तव्यता काऽपि शास्त्रोक्ता काऽपि सांप्रतं दृश्यमानपरम्परागम्या, तथाहि —उपधाने | श्रावकैर्विकृतिमध्ये एकं घृतमेव ग्राह्यं नाऽन्या काऽपि विकृतिः १ । उपधाने त्रिंशन्निर्विकृतिकानां मध्ये एकमपि निर्वि|कृतिकं न ग्राह्यं, तथाविधकारणे तु सति खण्डादिग्रहणं यतनया कार्यं २ । उत्कटद्रव्याणि अपि न ग्राह्याणि ३ । आर्द्रहरितशाकोऽपि न ग्राह्यः ४ । घृततैलादि व्याधारितशाकोऽपि न ग्राह्यो, धूमितस्तु ग्राह्यः ५ । तलितपर्पटसीरावटिकादिकमपि न ग्राह्यं ६ | अन्नादिपरिवेषिका स्त्री कृतरात्रिप्रायश्चित्ता शुद्ध्यति नाऽन्यथा ७ । अन्नादिपरिवेषिकाया वस्त्राणि दण्डित - खण्डितादिकानि न शुद्ध्यन्ति ८ । जेमनादिभूमिस्थानमपि कृतरात्रिप्रायश्चित्तया दण्डितखण्डितादिवस्त्ररहितया प्रमाजिंतं शुद्ध्यति ९ । यावन्ति च वस्त्राद्युपकरणानि तपःप्रवेशप्रथमदिने गृहीतानि भवन्ति तानि सर्वाण्यपि भोग्याभोग्यानि उभयकालं प्रतिलेख्यानि १० । जेमनस्थाली कच्चोलकादीनि तु जेमनदिने पादोन प्रहर प्रतिलेखनासमये प्रतिलेखनीयानि नाऽन्यदा भोजनाभावाच्च ११ । कदाचित् हारकुण्डलादिकं गृहीतं स्वदेहादुत्तार्य स्वगृहादौ मोच्यं भवेत् तदा विना | उपधानं यया स्त्रिया अहोरात्र पौषधो गृहीतोऽभवेत् तस्या हस्ते रात्रौ न तु दिने उपधानवाहिन्या देयं सा च प्रातः तदुक्तस्थाने मुञ्चति १२ । उपधाने सर्वाणि वस्त्राणि स्वयं वा मालिकया वा प्रतिलेखितानि शुद्ध्यन्ति १३ । सर्वं क्रियानु| ष्ठानं आदेशनिर्देशादिकं मालिकादेशेन शुद्ध्यति १४ । क्रियानुष्ठानकारिका मालिकाऽप्युभयकालं प्रतिक्रमणं करोति, रात्रिप्रायश्चित्तं करोति, सप्तवारांश्च देवान् वन्दते तदा शुद्ध्यते नाऽन्यथा १५ । रजस्वला दिनत्रयं तपसि न पतति १६ । महाअ 251 & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy