SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रभसूरिवचनात् साधुः 'परसमये' त्यादि गाथात्रयरूपां वर्धमानस्तुतिं मन्दमृदुस्वरेण पठति । श्राविकास्तु संसारदावेति, ततो 'नमुत्थुण मित्यादि भणित्वोत्थाय देवान् वन्दते । यत उक्तं| "इच्छामो अणुसदि, ति भणिय उववसिअ पढइ तिन्निथुई। मिउसद्देणं सक्कथयं, इओ चेइए वंदे ॥१॥" उभयोरपि आवश्यकयोः आद्यन्तेषु माङ्गल्यार्थ चैत्यवन्दने आधिकृतेष्वपि यदहर्मुखे प्रदोषे च विस्तरतो देववन्दनं तद्विशेषमाङ्गल्यार्थ कालवेलाप्रतिबद्धत्वेन च संभाव्यते, अन्यथा वा कारणं यथागमं ज्ञेयं, ततः साधुः पौषधीकः श्राद्धश्च प्रथमक्षमाश्रमणेन भगवन् 'बहुवेलं संदिसावेमि' १ द्वि०क्ष० भगवन् बहूवेलं करेमि २ तृ.क्ष. श्रीआचार्यमिश्र ३ च. क्ष० श्रीउपाध्यायमिश्र ४ प० क्ष० सर्वसाधुवन्दनं ५। अत्र बहूवेलमित्यादि एतस्य अयमर्थः-सर्वकार्याणि श्रीगुरुप्रश्नपूर्वक कार्याणि, ततश्च दिवसमध्ये लघुलघुकार्येषु पुनः पुनः प्रश्नं कर्तुं दुःशक्यं, अतस्तेन क्षमाश्रमणद्वयेन तल्लघुलघुकार्यकरणविषये श्रीगुरूणां अनुमति मार्गयति, बहुवेलासंभवीनि कार्याण्यपि बहुवेलेति उच्यन्ते इति संभाव्यते, सुधीभिस्तु अन्यथाऽपि यदागमं विचार्यमत्रापि प्रतिक्रमणे पञ्चविधाचारविशुद्धिविधिः पूर्ववद्भाव्यः, इत्यनेन रात्रिप्रतिक्रमणं पूर्ण जातं । ततः कम्मभूमि १ अट्ठावयंमि उसभो०२ इत्यादीनि कुलकानि मङ्गलार्थ पठति, अत्र रात्रिप्रतिक्रमणे आदौ प्रतिक्रमणस्थापनात आरभ्य प्रान्ते क्षमाश्रमणपञ्चकं यावत् सर्वत्राऽऽन्तरणीदोषः, तथा कोऽपि रात्रिप्रतिक्रमणं यदि पश्चात् स्थापयति स पृथगेव क्रियां करोति, परं सायन्तनप्रतिक्रमणे इव न पश्चादापतति । तथैव प्रवृत्तिर्दर्शनात् इति रात्रिप्रतिक्रमणं २॥ ननु-मूलसूत्रे क्वाऽपि प्रतिक्रमणानुक्रमो निर्दिष्टो वर्तते न वा? उच्यते-श्रीउत्तराध्ययनसूत्रे षड्रिंशति FRICARRIAGRA Jain Education Totem 0327ersonal use Only all.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy