________________
Jain Education Inter
"पहट्ट मेरसारण, विणओ उ ण फेडिओ हवइ एवं । आयरणा सुअदेवअ - माईणं होइ उस्सग्गो ॥ ४९१ ॥” व्याख्या - तत्र हि विस्मृतमर्यादा स्मरणं भवति, विनयश्च न फेटितो - नातीतो भवति, 'एवं' उपकार्यासेवनेन, एतावत् प्रतिक्रमणं, आचरणया श्रुतदेवतादीनां भवति कायोत्सर्गः । आदिशब्दात् क्षेत्र देवता - भवनदेवता-परिग्रह इति गाथार्थः ॥९१॥ "चाउम्मासिअ वरिसे, उस्सग्गो खित्तदेवयाए उ । पक्खिय सिज्जसुराए, करिंति चउमासिए वेगे ॥ ४९२ ॥” चातुर्मासिके वार्षिकेच प्रतिक्रमणे इति गम्यते कायोत्सर्गः क्षेत्रदेवताया इति, पाक्षिके शय्या सुरायाः, भवनदेवतायाः कुर्वन्ति इत्यर्थः, चातुर्मासिकेऽपि एके मुनयः इत्यर्थः ॥ ७१ ॥
॥ इति पर्युषणपर्वणि भवनदेवता - कायोत्सर्गः ॥ ७१ ॥
ननु - यः पाक्षिकसूत्रं भणति ये च शृण्वन्ति ते पूर्व किं पठन्ति ? उच्यते - तत्र यः सूत्रं भणति, तस्याऽयं क्रमः - "सामा|इअसुत्तं उस्सग्गसुत्तं भणिय, खमासमणेण पक्खियसुत्तं संदिसावेमि पुणो खमासमणेण पक्खियसुत्तं कड्डेमित्ति भणित्ता नमुक्कारतिगं कड्डिअ पक्खियमुत्तं भणइ”, इति ये च पाक्षिकसूत्रं शृण्वन्ति तेषां चाऽयं क्रमः, तथाहि
“जे अ सुणंति ते उस्सग्गसुत्ताणंतरं तस्स उत्तरी करणेणं तिदंडगं पढिअ काउस्सग्गो ठंति" इति श्रीविधिप्रपायां श्रीजिनप्रभसूरिवाक्यं । श्रीतरुणप्रभसूरिकृतषडावश्यक बालावबोधे तु पाक्षिकसूत्रकथकस्य प्रारम्भे नमस्कारत्रयभणनमेव दृश्यते, तथा च तत्पाठः - "देवसिअआलोइअं पडिक्कंतं पक्खियं पडिक्कमावेह इसुं कही । चउमासिए चउमासिअं पडिक मावेह इसुं कही । संबच्छरिए संवच्छरिअं पडिक्कमावेह इसुं कही, करेमि भंते इत्यादि इच्छामिठामि काउस्सग्गं जो मे पक्खिओ अइ
pate & Personal Use Only
291
w.jainelibrary.org