________________
USHUSHUSHUSHUSHUSHUSHUSHUSHUSHUS
क्रियमाणमासीत् , ततस्तत्परम्पराऽऽयातैः अस्माभिरपि चतुर्थ्यामेव श्रीपर्युषणापर्व विधीयते इति न दोषः कोऽपि ॥
ननु-यदि एवं च-"एव च कारणेणं अजकालगेहिं चउत्थीए पज्जोसवणं पवत्तिों समत्तसंघेण य अणुमन्निअं", इति स्थानाङ्गवृत्तौ भणितं । तदा समस्तसंघेन चतुझं तस्याऽङ्गीकरणात् । सांप्रतं केषुचिद्गच्छेषु पञ्चम्यां तत्करणं कुतः ॥ | उच्यते-श्रीकालिकाचार्यपरम्परां न ते मन्यन्ते इति संभाव्यते । ननु तर्हि असढेण समाइन्नं' इत्यायुक्तत्वेन कथं न
ते दोषभाजः ॥ | उच्यते-तत्रार्थे त एव प्रष्टव्याः, वयं च न कांश्चिदपि निन्दामः।ननु-आत्मगच्छे पञ्चम्यां केवलं श्रीकल्पसुत्रं पाठमात्रतः श्रीसंघाग्रे वाच्यते न वा! न वाच्यम्-इति उत्तरं, यतः सांवत्सरिकप्रतिक्रमणानन्तरिककल्पाष्टमाध्ययनपाठादनु-"कप्पसमप्पावणियं करेमि काउसगं" इति वाक्येन कल्पसमाप्तिनैमित्तिककायोत्सर्गस्य तादौ प्ररूपणात्, सांवत्सरिकप्रतिक्रमणस्य चतुर्थ्यामेवाचरितत्वात् , चतुर्थ्यामेव तद्वचनं यौक्तिकं, न पञ्चम्यां, अतश्चतुझं सांवत्सरिककृत्यसमाप्तिकारकाणां पञ्चमी षष्ठीवद्दोषकृत् ज्ञेया । पुनर्यथा श्रीकल्पसूत्रे-"नो से कप्पइ तं रयणिं उवाइणा वित्तए" इति पञ्चमीमाश्रित्य प्रोक्तं, तथा चतुर्थीमानकानां चतुर्थीमाश्रित्यापि ज्ञेयं, ततश्चतुर्थीमानकानां पञ्चम्यां श्रीकल्पसूत्रस्य संघसमक्षं पाठ-1 वाचनेऽपि महान् दोषः। इति चतुर्थी श्रीपर्युषणापर्वकरणम् ॥ ६१ ॥
॥ इति चतुर्थ्या श्रीपर्युषणापर्वकरणम् ॥ ६१॥
Jain Education Inten
Vidww.jainelibrary.org
2
7Tvate & Persona