SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ १११ ॥ गृहवासे गृहपाशे वा गृहस्थभाव इति यावत्, 'दीवं 'ति 'दीपी दीप्तौ' दीपयति- प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभो यदि वा द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः, स च भावद्वीपः संसारसमुद्रे सर्वज्ञो तचारित्रलाभः । तदेवंभूतं दीपं द्वीपं वा गृहस्थभावे 'अपश्यन्तो' अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेन उत्थिता उत्तरोत्तरगुणलाभेन एवंभूता भवन्ति, इति दर्शयति, 'नराः' पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामपि एतद्रुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणां आदानीयाः - आश्रयणीयाः पुरुषादानीया महतोऽपि महीयां सो भवन्ति, यदि वा आदानीयो - हितैषिणां मोक्षः तन्मार्गों वा सम्यग्दर्शनादिकः पुरुषाणां - मनुष्याणां आदानीयः पुरुषादानीयः स विद्यते येषामिति विगृह्य 'मत्वर्थीयोऽर्श आदिभ्योऽच्' इति, तथा ये एवंभूताः ते विशेषेण |ईरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेण उत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितं' असंयमजीवितं प्राणधारणं वा 'नाभिकाङ्क्षन्ति' नाऽभिलषन्ति इति । तथा सिद्धान्ततपोऽवहने उप| देशाशुद्धतादिदोषोऽपि स्यात्, यदुक्तं श्रीसूत्रकृदंगे चतुर्दशाध्ययने ( २५१ पत्रे ), तथाहि " से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवक्के कुसले वियत्ते, स अरिहइ भासिउं तं समाहिं ॥ २७ ॥” एतद्वृत्तिरेषा, 'स' - सम्यग्दर्शनस्यालूषको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः । 'शुद्धम्' अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनतश्च 'सूत्र' प्रवचनं यस्याऽसौ शुद्धसूत्रः । तथोपधानं - तपश्चरणं यद् यस्य सूत्रस्य अभिहितं आगमे तद् विद्यते | यस्याऽसौ उपधानवान् । तथा 'धर्म' श्रुतचारित्राख्यं यः सम्यक् वेत्ति विन्दते वा सम्यक् लभते 'तत्र तत्रेति' य आज्ञा Jain Education International For Private & Personal Use Only योगोपधानवहना धिकारः ४५ ॥ १११ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy