________________
RECENSUSNESSIONS
धत्ते पौषधः अष्टमी-चतुर्दश्यादिः पर्वदिवसः, उपैति-सह उपावृत्तदोषस्य सतो गुणैः आहारपरिहारादिरूपैः वासः उपवासः, यथोक्तम्-'उपावृत्तस्य दोषेभ्यः, सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो, न शरीरविशोषणम् ॥१०३॥ ततः पौषधेषूपवासः पौषधोपवास' इति ॥९॥ तथा नवपदप्रकरणबृहद्वत्तौ अपि सं० ११५० श्रीउपकेशगच्छीयकक्कसूरिसन्तानीयोपाध्याययशोदेवकृतायां (पृष्ठम् २७१) 'कर्तव्यः' विधेयः स 'नियमात्' नियमेन 'अष्टम्यादिषु पर्वसु' अष्टमीचतुर्दश्यादिषु उत्सवतिथिषु ॥१०॥ एवं श्रीदेवेन्द्रसूरयोऽपि धर्मरत्नप्रकरणबृहद्वत्तौ प्रोचुः । तथाहि-“पोषं पुष्टिं प्रक्रमात् धर्मस्य धत्ते करोतीति पौषधः अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्यादिपर्वदिनानुष्ठेयो व्रतविशेषः" (पत्रं ६४)॥११॥ एवं समवायाङ्गसूत्रवृत्त्योरेकादशस्थाने,श्रावकैकादशप्रतिमाधिकारे (पृष्ठम् १९); तथाहि-"पोसहोववासनिरए"-व्याख्यापोषं पुष्टिं कुशलधर्माणां धत्ते यत् आहारत्यागादिकं अनुष्ठानं तत् पौषधं, तेन उपवसनं अवस्थानं अहोरात्रं यावत् , इति पौषधोपवास इति, अथवा पौषधं पर्वदिनं अष्टम्यादि, तत्र उपवासः अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव । प्रवृत्तिस्तु-अस्य शब्दस्य आहार-शरीरसत्कारा-ऽब्रह्मचर्यव्यापारपरिवर्जनेषु अपि, तत्र-पौषधोपवासे निरतः आसक्तः पौषधोपवासनिरतः, स एवंविधश्च श्रावकस्य चतुर्थी प्रतिमा इति प्रक्रमः। अयम् अत्र भावः-पूर्वप्रतिमात्रयोपेतस्य अष्टमीचतुर्दशी-अमावास्या-पूर्णमासीषु आहारपौषधादि चतुर्विध पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावत् चतुर्थी प्रतिमा भवति ॥१२॥ एवं पञ्चाशकवृत्तौ अपि श्रीअभयदेवसूरिकृतायां (पृष्ठम् २५)-पौषधः-पर्वदिनानुष्ठानमिति व्याख्यातं तथाहि-"पोषं पुष्टिं प्रक्रमात धर्मस्य धत्ते करोतीति पौषधः-पर्वदिनानुष्ठानम्" इति ॥ १३॥
mea
तुरा मासान् यावत्
तथाहि-"पोषं पुलिचाशकवृत्तौ अपि नाद चतुर्विधं पौष
प्रक्रमात् धर्मस्य धत्ते त रिकृतायां (पृष्ठम
45
Jain Education inte
For Private & Personal use only
O
ww.jainelibrary.org
18