________________
Jain Education Inter
शनिनः सन्ति तैः पूजा विधीयते । तत्त्वं पुनः केवलिनो विदन्ति इति, यथाऽस्ति तथा प्रमाणं, नाऽस्माकमभिनिवेशलेशः । तथा पुनः श्रूयतां देवा जिनप्रतिमाः पूजयन्तीति यदि देवानां स्थितिस्तदा किं सर्वेषां देवानां स्थितिरेषा किं वा सम्यक्त्वदर्शनिनां ? नाद्यः पक्षः कक्षीकार्यः, यदि सर्वेषां स्थितिः अभविष्यत् तदा "ताओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं वेमाणियदेवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ” इति नाऽवदिष्यद् गणधरदेवः । अथ सम्यग्दर्शनिनां तदा इष्टापत्तिः, अस्माभिः एवमेव उच्यते, यत् — ये सम्यक्त्वधारका देवास्ते जिनप्रतिमाः पूजयन्ति न मिथ्यात्विनो देवाः ॥ ॥ इति देवस्थितेरपि पुण्यत्वाधिकारः ॥ ४४ ॥
ननु - आत्मीये गच्छे साधवो योगोपधानानि वहन्ति प्ररूपयन्ति च योगोपधानवहनमन्तरेण सिद्धान्तवाचने महादोषो जायते, अन्यगच्छेषु केषुचित् यतिनो न वहन्ति चोपधानानि, प्रत्युत श्रावका अपि सिद्धान्तं अधीयाना दृश्यन्ते तत्र का सिद्धान्तवाणी ? उच्यते — श्रीमहानिशीथसूत्रे उपधानं विना सिद्धान्तवाचने महापापदोषो भणितोऽस्ति, तथाहि"गोअमा ! जे केइ अणोवहाणेण सुपसत्थं नाणमहीअंति अज्झायंति वा अहीयंते वा अज्झावयंते वा अन्ने समणुजाणंति ते णं महापावकम्मा, महतिं च सुपसत्थनाणस्स आसायणं पकुवन्ति” इति, तथा योगोपधानानि तु साधूनां श्रीउत्तराध्ययनेषु बहुश्रुताध्ययनेषु ( ३४७ पत्रे ) प्रोक्तानि सन्ति, तथाहि "वसे गुरुकुले निश्च्चं, जोगवं उवहाणवं । पिअंकरे पिअंवाई, से | सिक्खं लडुमरिहति । १४ ।” तथा साधोरपि दीक्षानन्तरं कालक्रमेण सिद्धान्तवाचनाऽनुज्ञाताऽस्ति ततः कुतः श्रावकाणां तत्पठनम् ? यदुक्तं श्रीव्यवहारसूत्रे
219
te & Personal Use Only
www.jainelibrary.org