________________
"पंचहिं ठाणेहिं जीवा दुल्लभबोधि-अत्ताए कम्मं पकरेंति, तं जहा-अरहंताणं अवण्णं वयमाणे १ अरहंतपन्नत्तस्स धम्मस्स अवण्णं वयमाणे २ आयरिअउवज्झायाण अवण्णं वयमाणे ३ चाउवन्नस्स संघस्स अवण्णं वयमाणे ४ विवक्कतव बंभचेराणं देवाणं अवणं वयमाणे ५" । पुनरपि तादृशानां धर्मवतां देवानां श्लाघां कुर्वन्तस्तु निजं बोधिबीजं सुलभ कुर्वन्ति यदुक्तं तत्रैव, तथाहि-"पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पकरेंति, तं जहा-अरिहंताणं वण्णं वयमाणे १ अरिहंतपन्नत्तस्स धम्मस्स वण्णं वयमाणे २ आयरिअ-उवज्झायाण-वण्णं वयमाणे ३ चाउवण्णस्स संघस्स वणं वयमाणे ४ विवक्कतवबंभचेराणं देवाणं वणं वयमाणे ५" इति। पुनः श्रीजीवाभिगमसूत्रे नन्दीश्वरद्वीपवक्तव्यतायां चतु-ना रञ्जनपर्वताधिकारे (३५७ पत्रे ) प्रोक्तमस्ति भवनपत्यादयो देवाश्चातुर्मासिकसांवत्सरिकदिनेषु अष्टाहिका प्रमुदितमनस्काः सन्तोऽष्टौ दिवसान यावत्कुर्वन्ति, अहो तेषां दृढो धर्मरागो वीतरागोपरि, तस्मात् कथं न ते धर्मवन्तः ?, तत्पाठो यथा| "तत्थ णं बहवे भवणवइवाणमंतरजोइसियवेमाणिया देवा चाउमासियापडिवएसु संवच्छरिएसु वा अण्णेसु बहुसु जिणजम्म[ण]-निक्खमण-नाणुप्पत्ति-परिनिवाणमाइएसु य देवकजेसु य देवसमुदएसु य देवसमिईसु य देवसमवाएसु य देवपओअणेसु य एगंतओ सहिता समुवागता समाणा पमुइअपक्कीलिआ अट्ठाहितारूवाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति" इत्यादि । अतो विरतिरूपधर्ममन्तरेण सम्यक्त्वधारका देवाः स्वभावतोऽपि धर्मवन्तोऽपि जिनप्रतिमापूजाया विशेषतो धर्मभाजो ज्ञेयाः॥४३॥
॥ इति देवानां विरतिधर्म विना सर्वे धर्माः॥४३॥
सामा०१९
Jain Education Internet
217 Personal Use Only
jainelibrary.org