SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । देवानां | विरतिधर्म विना सर्वे धर्मा इत्य ॥१०७॥ धिकारः ४३ अधर्मत्वं समागतं, परं "ज्ञानदर्शनचारित्राणि मोक्षमार्गः" इत्युक्तत्वात् , न तु मोक्षमार्गमाश्रित्य । पुनः श्रीस्थानांगे तृतीय- स्थाने चतुर्थोद्देशके (१५९ पत्रे), तथाहि- "तिविहा आराहणा पन्नत्ता, तं जहा नाणाराहणा दंसणाराहणा चरित्ताराहणा" इत्युक्तत्वात् देवेषु ज्ञानाराधना दर्शनाराधना २ चेति आराधनाद्वयं विद्यते ततः कथमधर्मित्वम् ? १॥ । पुनः श्रूयतां-श्रीस्थानांगतृतीयस्थानके चतुर्थोद्देशके (१७३ पत्रे ), "तिविहे धम्मे भगवया पन्नत्ते, तं जहा सुअधि|ज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातितं भवति, जया सुज्झातिअं भवति तदा सुतव|स्सिअं भवति, से सुअधिज्झिते सुज्झातिते सुतवस्सिए सुतक्खाते णं भगवया धम्मे पन्नत्ते," इत्युक्तत्वाद्देवानां वीतरागहै वन्दनादिशुभध्यानवतां धर्मित्वमेव । पुनः श्रीजम्बूद्वीपप्रज्ञप्तयां (१५८ पत्रे ) प्रोक्तं, केऽपि देवा जिनभक्त्या केऽपि देवा धर्म इति कृत्वा जिनदंष्ट्रा गृह्णन्ति, तेषु धर्म एवाऽऽस्ते, तत्पाठो यथा "तए णं से सके देविंदे देवराया भगवओ तित्थगरस्स उवरिलं दाहिणं सकहं गेण्हइ, ईसाणे देविंदे देवराया उवरिलं वामं सकहं गिण्हति, चमरे असुरिंदे असुरराया हिद्विलं दाहिणं सकह गिण्हति, बली वइरोअणिंदे वइरोअणराया हिडिल्लं वाम सकहं गिण्हति, अवसेसा भवणवइ जाव वेमाणिआ देवा जहारिहं अवसेसाई [अंगमंगाई अंगुवंगाई, केई जिणभत्तीए केई जिअमेअंतिकट्ठ केई धम्मोत्ति कट्ट गिण्हति ।" पुनः श्रीभगवतीसूत्रे दशमशतके चतुर्थोद्देशके (५०३ पत्रे), चमरेन्द्रादय ईशानेन्द्रान्ता देवा माणवकचैत्यस्थितसमुद्गकान्तरवर्तिजिनदंष्ट्रा ॥१०७॥ Jain Education Intel & Personal use only taniw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy