SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter |मान्यत्वेन यौवनादिमदोत्कटतया नारदस्य न उत्थानादि चक्रे इति, यतः सूत्रे गणधरदेवोक्तं अनुत्थानादौ असंयताविरतादिकं हेतुं मुक्त्वा नवीनस्वगल्लकल्पितहेतुं वदतः तव महोत्पुत्रदोषापत्तिः भविष्यति इति, अपि च यदि द्रौपदी श्रा| विका न अभविष्यत् तदा नमोत्थु णं कथं अकथयिष्यत्, नहि श्रावकधर्म विना कोऽपि नमोत्थु णं पठति जिनप्रतिमाग्रे कथयति वा । पुनः प्राह मनोमतिशिष्यः ननु - द्रौपद्या जिनप्रतिमा पूजिता परं धर्मार्थ न, किन्तु विवाहसमयत्वात् संसा रार्थ, तत्राऽर्थे शृणु रे मूर्ख ! यदि कोऽपि विद्यमानं तीर्थङ्करं पूर्व वन्दयित्वा वा साधुं वा पूर्व प्रतिलाभयित्वा सामायिकं वा पूर्व लात्वा पश्चात् भोजनं कुरुते तर्हि किं विद्यमानतीर्थङ्करवन्दनादिपुण्यं संसारार्थे किं पतिष्यति ? प्रत्युत एवं प्रशंसा कर्तव्या तस्याः “अहो ! धन्या एषा द्रौपदी, अहो ! दृढं अस्याः सम्यक्त्वं, अहो ! शस्यं अस्याः श्राविकात्वं, | यदुत विवाहादिकर्तव्यव्यग्रतायां अपि जिनप्रतिमां पूजितवती” इति । न च वाच्यं अनया तु पूर्वजन्मनि निदानं व्यधायि, तेन तस्मिन् सति कथं तस्याः सम्यक्त्ववत्त्वं श्राविकात्त्रं चेति ? द्रौपदीकृत निदानस्य “निव १ घणि २ नारी ३ नर ४ सुर ५ | अष्पष्पविहार ६ आयविआरत्तं ७ सङ्घत्त ८ दरिदत्त ९ चइज्ज नवनिआणाइ ॥ १ ॥” इति निदाननवके न अन्तर्भावात् निदानता एव न भवति, यथा कथंचित् चतुर्थनिदानमध्ये अन्तर्भावेऽपि अध्यवसायविशेषेण तस्य निदानताया अभावात् | तस्याः श्राविकात्वं न व्याहन्यते, अपि च तादृशनिदान सद्भावे ब्रह्मदत्त चक्रवर्तिवत् न विरतिः उदयं एति, द्रौपदी तु प्रत्रजिता अतो न तस्याः निदानता १ तथा श्रीभगवती सूत्रे २० शतके नवमोदेश के ( ७९३ पत्रे ), यथा विद्याचारणजङ्घाचारणसाधुभिः शाश्वतानि नन्दीश्वरादिसत्कानि अशाश्वतानि च, भरतक्षेत्रसत्कानि चैत्यानि वन्दितानि सन्ति, तानि श्रूयतां - 163 Ivate & Personal Use Only www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy