________________
Jain Education Inter
॥ अथ द्वितीयः प्रकाशः ॥ ॥ श्रीमत्पार्श्वनाथाय नमः ॥
ननु - श्रीजिनशासने संप्रति कति आगमाः सन्ति ? उच्यते - पञ्चचत्वारिंशत्, यदुक्तं - " इक्कारस अंगाई ११, बारसउवंगाइ २३ दस पइण्णा ३३ य । छ च्छेअ ३९ मूलचउरो ४३, नंदी ४४ अणुयोगदाराई ४५ ॥ १ ॥" पृथक् पृथक् नामानि अपि इत्थं - श्रीआचाराङ्गं १ सूत्रकृताङ्ग २ स्थानाङ्गं ३ समवायाङ्गं ४ भगवती ५ ज्ञाताधर्मकथा ६ उपासकदशाङ्गं ७ अन्तकृद्दशाङ्गं ८ अनुत्तरोपपातिकदशाङ्गं ९ प्रश्नव्याकरणं १० विपाकश्रुतं ११ चेति एकादश अङ्गानि । औपपातिकं १ | राजप्रश्नीयं २ जीवाभिगमं ३ प्रज्ञापना ४ सूर्यप्रज्ञप्तिः ५ जम्बूद्वीपप्रज्ञप्तिः ६ चन्द्रप्रज्ञप्तिः ७ निरयावली ८ कल्पावतंसिका ९ पुष्पिका १० पुष्पचूलिका ११ वह्निदशोपाङ्गं १२ चेति द्वादश उपाङ्गानि पूर्वमीलने २३ । चतुःशरणप्रकीर्णकं १ चन्द्रावेध्यकः २ आतुरप्रत्याख्यानं ३ महाप्रत्याख्यानं ४ भक्तप्रत्याख्यानं ५ तन्दुलवैकालिकं ६ गणिविद्या ७ मरणसमाधिः ८ देवेन्द्रस्तवः ९ संस्तारकप्रकीर्णकं १० चेति दश प्रकीर्णकानि पूर्वमीलने ३३ । निशीथः १ महानिशीथः २ व्यवहारः ३ बृहत्कल्पः ४ जीतकल्पः ५ दशाश्रुतस्कन्धः ६ चेति षट् छेदग्रन्थाः पूर्वमीलने ३९ । ओघनिर्युक्तिः १ पिण्ड - निर्युक्तिः २ दशवैकालिकं ३ उत्तराध्ययनं ४ चेति चत्वारि मूलसूत्राणि । क्वाऽपि विचारामृतसंग्रहादौ ओघनिर्युक्तिस्थाने
151 Personal Use Only
w.jainelibrary.org