________________
सामाचारीशत
तस्स धम्मस्स केवलिपन्नत्तस्स कथननिषेधाधिकार
॥६२॥
२२
"लोइओ दुविहो इत्तरिओ आवकहिओ अ, इत्तरिओ सूयगादिसु दसादिदिवसपरिवजणं, आवकहिओ जहा नट्ट-बरुडछिपग-चम्मार डुंबा य, लोउत्तरिओ सेज्जादाण-अभिगमसड्डादि आवकहिओ रायपिंडो इति३ । पद्मपुराणेऽपि उक्तम्"मृते स्वजनमात्रेऽपि, सूतकं जायते किल । अस्तंगते दिवानाथे, भोजनं क्रियते कथम् ? ॥१॥" तथा लौकिकसूतकमपि एवं, तथाहि-"सूतकं वृद्धिहानियां, दिनानि त्रीणि द्वादश । प्रसूतिस्थानमासैकं, वासराः पञ्च गोत्रिणाम् ॥१॥ प्रसूतिं च मृते बाले, देशान्तरमृते रणे । सन्ताने मरणं चैव, दिनैकं सूतकं मतम् ॥२॥ यद्दिने सूतके जाते, गते द्वादशके दिने । जिनाभिषेकपूजायां, पात्रदानेन शुद्ध्यति ॥ ३॥ पञ्चहा सूतकं क्षत्रे, शूद्रे पक्षकसूतकम् । दशहा ब्राह्मणे विद्धि, द्वादशहा वैश्यमाचरेत् ॥ ४ ॥ सतीसूतकं हत्या च, पापं पाण्मासिकं भवेत् । अन्येषामात्महत्यानां, यथापापं च कल्पयेत् ॥५॥ अश्वी-चेटिका-महिषी-गोप्रसूतिग्रुहाङ्गणे । सूतकं दिनमेकं स्यात्, गृहबाह्ये न सूतकम् ॥ ६॥ दासी दासस्तथा कन्या, जायते वियते यदि । त्रिरात्रं सूतकं ज्ञेयं, गृहमध्येऽतिदूषितम् ॥७॥ यदि गर्भविपत्तिः स्यात्, श्रवणे वाऽपि योषिताम् । यावन्मासं स्थितो गर्भ-स्तावद्दिनानि सूतकम् ॥८॥ महिषीपक्षक क्षीरं, गोक्षीरं च दिना दश । अष्टकं च अजाक्षीरं, पश्चात् क्षीरं प्रवर्तकम् ॥९॥ इत्यादिस्वशासनपरशासनसम्मत्या समर्थितं सूतकवर्जनम् ॥२१॥
॥इति जातमृतकसूतकपिण्डनिषेधाधिकारः ॥२१॥ ननु-खरतरगच्छीयाः श्राद्धाः प्रतिक्रमणसूत्रान्ते उत्तिष्ठन्तः "तस्स धम्मस्स केवलिपन्नत्तस्से ति" वाक्यं न कथयन्ति, वाचा अनुच्चरन्तो मनस्येव तदर्थ ध्यायन्तीति, अत्र काऽपि ग्रन्थसम्मतिरस्ति ? उच्यते-अस्तीति, श्रीजिनपतिसूरिभिः
12 .
॥६२॥
Jain Education Intern
(A
w.jainelibrary.org