________________
Jain Education Int
'पडिकुडकुलं न पविसे, मामगं परिवज्जए । अचियत्तकुलं न पविसे, चिअत्तं पविसे कुलं ॥ १७ ॥ व्याख्या - प्रतिकुष्टं कुलं द्विविधम्-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं, यावत्कथिकं अभोज्यं एतन्न प्रविशेत् शासनलघुत्वप्रसंगात् । अत्राऽर्थे प्रशमरतिसूत्रवृत्ती अपि ( ४० पत्रे ), तथा
“लोकः खल्वाधारः, सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥ १३१ ॥ व्याख्यालोको जनपदः, खलुशब्दो अवधारणे, लोक एव आधारः सर्वेषां ब्रह्मचारिणां यस्मात् ब्रह्म-संयमः सप्तदशभेदः, तद्योगात् संयमिनः तेषां सर्वेषामिति गच्छ्वासिनां गच्छनिर्गतानां च तस्मात् लोके यद्विरुद्धं जात-मृतक-सूतक समूह| निराकृतादिगृहेषु भिक्षादिग्रहणं अभोज्येषु च परिहार्य, तथा चाss
“जे जहिँ दुगुंछिआ खलु, पद्यावणवसहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा, वज्जेअवा पयत्तेण ॥ १ ॥" यच्च लोकैकदेशे विरुद्धं मद्य-मांस - लशुन - बीजानन्तकायादि धर्मसाधनविरुद्धं अनेकं तदपि परिहार्यमिति ॥ १३१ ॥ इतश्च लोकैकवार्तान्वेषणं श्रेयोहेतुः इति दर्शयति । ननु - दशदिनादिमानं अपि कुत्राऽपि प्रोक्तमस्ति ?, उच्यते - श्रीव्यवहारभाष्यवृत्ती श्रीमलयगिरिसूरिभिः दशदिनमानं उक्तं अस्ति, तथाहि - " जातसूतकं नाम जन्मानन्तरं दशाहानि यावत्, मृतकसूतकं मृतानन्तरं दश दिवसान् यावत् । १ । पुनरपि व्यवहारभाष्यवृत्तौ प्रथमोदेशके; तथाहि -"लौकिकं द्विधा, इत्वरं यावत्कधिकं च, तत्र इत्वरं मृतक सूतकादि; तथाहि लोकैः सुतकादि दश दिवसान् यावत् वर्ज्यते इति यावत्कथिकं बरुड - छिम्पक - चर्मकार - डुम्बादि एते हि यावज्जीवं शिष्टैः संभोगादिना वर्ज्यन्ते इति । २ । पुनः निशीथचूर्णौ परिहार निक्षेपाधिकारे
123
For Private & Personal Use Only
www.jainelibrary.org