SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ROCRASSICA श्रीजिनदत्तसूरिप्रमुखैः । कथं ? कस्मिन् ग्रन्थे ? इत्याह-"पुरिसित्थीओ पडिमा, वहंति तत्थाइमा चउरो॥६॥" तदुत्सूत्रं इति श्रीजिनदत्तसूरिकृतोत्सूत्रपदोद्धट्टनकुलके षष्ठगाथायां ॥१॥ एवं श्रीजिनपतिसूरिभिरपि निजसामाचार्या तनिषेधो लिलिखे, तथाहि-"संपइ काले सावयपडिमाओ न वहिजते॥२॥" ननु-ततःप्राक्तनग्रन्थेऽपि वाऽपि प्रतिमावहननिषेधो दृश्यते ? उच्यते-तीर्थोद्धारप्रकीर्णके तद्व्यवच्छेदस्य प्रतिपादना, तथाहि__ साहूणग्गोयरओ वुच्छिन्नो दूसमाणुभावाओ। अजाणं पणवीसं सावयधम्मो अवुच्छिन्नो ॥१॥ एतद्गाथार्थस्तु | अयं तथाहि-साधूनां महात्मनां पूर्व प्रमादाल्पत्वेन 'अग्गोऽयरओ' त्ति अग्रवेत्तारः ( अग्रावतारः) परिधानविशेषः | साधुजनप्रतीतः आसीत् , स संप्रति व्युच्छिन्नः, कटि पट्टकस्य अन्यथा करणात् कस्माद् दुःषमानुभावात् १ तथा आर्यिकाणां साध्वीनां पञ्चविंशत्युपकरणानां आसन् , संप्रति तानि अपि व्यवच्छिन्नानि २ तथा श्रावकधर्मः श्रावकैकादशप्रतिमारूपो धर्मोऽपि व्यवच्छिन्नः३न च वाच्यं श्रावकधर्मशब्देन सम्यक्त्वमूलस्थूलद्वादशव्रतरूपोधर्मो व्यवच्छिन्नः, एतद्वचनस्य द्वादशत्रतरूपश्रावकधर्मस्य प्रत्यक्षं क्रियमाणत्वेन अघटमानत्वात् , तद्व्यवच्छेदस्य तु साधुधर्मव्यवच्छेदेन सहभावित्वाच्च, साधुधर्मस्तु आदुःप्रसहसूरि स्थास्यति, ततः तत्सहभावित्वेन श्रावकधर्मोऽपि द्वादशव्रतरूपः तावन्तं कालं स्थाता। ननु-तीर्थोद्धारप्रकीर्णकगाथातुर्यपदस्य केन अर्थो व्याख्यातः ? यदुत 'एकादशप्रतिमारूपो धर्मो व्यवच्छिन्नः' ? उच्यते-तरुणप्रभसूरिणा स्वकृतषडावश्यकबालावबोधे इत्थमेव प्रतिपादितत्वात् , तथाहि "साहूणंऽगोअरओ, वुच्छिन्नो दूसमाणुभावाओ। अजाणं पणवीस, सावयधम्मो अ वुच्छिन्नो ॥१॥" अत्र साधु CHARGEOGREECEMARRESS 1.5 Private & Personal Use Only Jain Education inte jainelibrary.org *
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy