________________
श्राद्धाः प्राय उष्णोदकं न पिबन्ति, तत्रापि त्रिदण्डोत्कलितमेव कल्पते, नाऽन्यथा, तादृशं तु प्रायशो दुलंभ साधूनुद्दिश्य क्रियमाणं तु आधाकर्मदोषभाक् भवति, सति च तस्मिन् द्वयोरपि दातृग्रहीत्रोः अहिताय अल्पायुष्याय च भवति, कसेलकप्रासुकनीरं तु आत्मनां गच्छे श्राद्धा विशेषतः श्राद्धिकाश्च पिबन्ति, तैस्तु तत् स्वार्थ क्रियमाणमस्ति, तन्मध्ये साधुभिरपि यतनया गृह्यमाणं न दोषाय स्यात् , ततः सिद्धान्तमूलत्वेन गच्छपरम्परया च कसेल्लकमासुकपानीयं गृह्यते इति॥९॥
॥ इति कसेल्लकपानीयविचारः ( अधिकारः)॥९॥ ननु-श्रीखरतरगच्छीयाः श्राद्धा आचाम्ले द्रव्यद्वयं गृह्णन्ति, नाऽधिकं, तत्किम् ? उच्यते-श्रीमजिनवल्लभसूरिशिष्यश्रीजिनदत्तसूरिभिः सन्देहदोलावलीसूत्रे (११६ पत्रे ) द्रव्यद्वयस्य एव प्रतिपादितत्वात् , तथाहि
“गिहिणो इह विहि आयं-बिलस्स कप्पति दुन्नि दवाइं । एग समुचिअमन्नं, बीअं पुण फासुअं नीरं ॥ १०४॥” इति ॥ ' अत्र उचितं अपि नीरमेव, न तु काञ्जिका १ अवस्रवण २ तक्रे ३ क्षुरसादीनि ४ तेषां हि पानकाहारत्वेऽपि शुद्ध्य| हेतुत्वेन आचमनादिकार्यस्य अनर्हत्वात्, अत एव प्रत्याख्यानचूर्णावपि जलमेव उक्त । तथाहि
"जावइअं उवजुज्जइ, तावइअं भायणे गहेऊणं । जलबिब्बुडं काउं, भुत्तबं एस इत्थ विही ॥१॥ एवं द्रव्यद्वयातिरिक्तद्रव्यनिषेधः श्रीजिनपतिसूरिभिरपि सामाचारीमध्ये २५ लिखितः॥१॥ तथाहि
"आयंबिले पप्पड १ घुग्घरिआर वेढमिआ ३ इडरिआ ४ तक्काइ ५ निसेहो त्ति ॥२॥ पुनः जीर्णपुस्तकेषु अपि आचाम्लप्रत्याख्यानपाठे-"सूरे उग्गए पुरिमहूं पच्चक्खामि तिविहं चउविहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्यणाभोगेणं
Jain Education inte
For Private & Personal Use Only
ainelibrary.org