________________
उपदेश
दृष्ट्वोदासीनामेकान्ते तत्पतिस्तामपृष्ठत् — “किं त्वमुपहतसङ्कस्येव चिन्तयसि ?” । एवं पृष्टे च तया पूर्वसूचितो दोहदोदन्तः स्वपतये प्रोक्तः । तं च श्रुत्वा स तां समाश्वासितवान् । श्रथ मध्यरात्रसमये सन्नद्धः सप्रहरणश्च स स्वगृहान्निर्गत्य नग॥ १७ ॥ ॐ रमध्येन नूत्वा पूर्वोक्के गोमरूप प्रायातः । तत्रत्यगवादिस्तनाद्यवयवांश्वित्वा गृहीत्वा च स्वगृहमागत्य ताँस्तस्यै दत्त
वान् । सा च दोहदं तैर्व्यपनीतवती । नवसु मासेषु समधिकेषु व्यतीतेषु सा दारकं प्रसूतवती । तस्य च विस्वरादिस्वरूपं रुदितं श्रुत्वा बहवो गवादयो जीता उधिग्नाश्च पलायिताः । एतदनुसारेण तस्य दारकस्य गोत्रास इति मातापितृभ्यां नाम स्थापितं । सुनन्देन तत्पित्रा स कुलनायकत्वे निवेशितः । स चाधार्मिकः पापरतिश्च समजनि । स च सदाऽर्धरात्रे स्वसद्मनो निर्गत्य पूर्वोकमएकपे गत्वा गवाद्यवयवान्निकृत्य गृहमागत्य तानास्वादयन् विचरति । पञ्चवर्षशतानि घोरपा पधाराऽतिघनं कर्मोपचित्य शर्करेति द्वितीयनरकपृथिव्यां त्रिसागरोपमायुर्नारकोऽजनि । इतश्च पूर्वोक्त विजय मित्रसार्थपतिनार्या सुना मृतापत्यकाऽऽसीत्, तत्कुक्षौ च स गोत्रासजीवोऽवातरत् जाते च तस्योज्जित इति नाम दत्तं मातापितृभ्यां प्रथमं जातमात्रेऽवकरके त्यक्त्वा पुनरात्तत्वात् । स च पञ्चधात्री परिपालितो वर्धते । श्रन्यदा तत्पिता विजयमित्र सार्थवाहो गणिमादि चतुर्विधं जाएगं गृहीत्वा पोतेन लवणसमुडेऽगछत् । पोते ने विजय मित्रोऽशरणो मृतः । नृत्याश्च सर्वे स्वाधीनं इव्यं गृहीत्वा गताः । तां च प्रवृत्तिं श्रुत्वा सुनषाऽमूर्वीत् । ततः स्वस्थीभूय स्वपतिमृतकार्यमकार्षीत् । सुनषाऽपि यदा शोचस्ती मृता तदा राजपुरुषा श्रागत्य तं दारकं बहिः क्षिप्त्वा तद्गृहमन्यस्मै दत्तवन्तः । स च दारको दुःस्थतया सर्वत्र परिभ्रमन् वर्धते, परिपाव्या द्यूतादिव्यसनी जातः । अन्यदा स कामध्वजगणिकया संप्रलनः ।
Jain Education Inte
Foe Piv 34
rsonal Use Only
सप्ततिका.
॥ १७ ॥
w.jainelibrary.org