SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ यन्त्र समासविधौ सत्यसमासवचनं, यथा राजपुरुषोऽयमित्यत्र तत्पुरुषे समासे कर्त्तव्ये विशेषणसमासकरणं बहुव्रीहिकरणं वा, यदिवा असमासकरणं राज्ञः पुरुषोऽयमिति २७ उपमादोषो हीनाधिकोपमाभिधानं यथा मेरुः सर्षपोपमः, सर्षपो मेरुसमः, बिन्दुः समुद्रोपमः समुद्रो विन्दूपम इत्यादि २८, रूपकदोषो नाम स्वरूपाक्यवव्यत्ययो यथा पर्वते पर्वतरूपावयवानामनभिधानं समुद्रावयवानां चाभिधानमित्यादि २९, निर्देशदोषो यत्र उद्दिश्यपदानामेकवाक्यभावो न क्रियते, | यथा देवदत्तः स्थाल्यामोदनं पचतीति वक्तव्ये पचतिशब्दानभिधानं ३०, पदार्थदोषो यत्र वस्तुपर्यायवाचिनः पदार्थस्यार्थान्तरपरिकल्पनाश्रयणं यथा द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलुकस्य ३१, सन्धिदोषो- विश्लिष्टसंहितत्वं सन्ध्यभावो वा ३२, एते द्वात्रिंशत् सूत्रदोषा भवन्ति ज्ञातव्याः, एभिर्वियुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं तत् इति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यच्चेति वचनाद्धि तच्छब्दनिर्देशो गम्यत एव तथाऽष्टभिर्गुणैरुपेतं यत् तल्लक्षणयुक्तमिति वर्त्तते ॥ ते चाष्टौ गुणा इमे Jain Education International निद्दोसं सारवंतं च, हेउजुत्तमलंकियं । उवणीयं सोवयारं व, मियं महरूमेव य ॥ ८८५ ॥ निर्दोषं नाम प्रागुक्तसमस्तदोषरहितं, सारवत्-बहुपर्याय, सामायिकशब्दवत् अन्ययव्यतिरेकलक्षणा हेतवस्तैर्युक्त हेतुयुक्तं, अलङ्कृतम् - उपमादिभिरुपेतं, उपनीतम् - उपनयोपसंहृतं, सोपचारम् - अग्र्याम्याभिधानं, मितं - नियतवर्णादिपरिमाणं, मधुरं श्रवणमनोहरं ॥ अथवेदं सर्वज्ञभाषितसूत्रलक्षणं अप्पक्खरमसंदिद्धं सारखं विस्सतोमुहं । अत्थोभमणवज्जं च, सुत्तं सबन्नुभासिरं ॥ ८८६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy