SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ KANGAROKARSA तत्रालीकं द्विषा-अभूतोदावनं भूतनिहवश्च, तत्र अभूतोद्भावनं यथा प्रधानं जगतः कारणमित्यादि, भूतनिहवो यथा| नास्त्यात्मेत्यादि १ उपघातजनक-सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्माय इत्यादि २ वर्णक्रमनिर्देशवत् निरर्थकम् , आरादेशादिवत् डित्यादिवद्वा ३, पौर्वापर्यायोगाद् असम्बद्धार्थमपार्थकं यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके दिशमुदीची स्पर्शनकस्य पिता प्रतिशीन इत्यादि ४ अर्थविकल्पोपपत्त्या वचनविघातः 8 छलं, वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं दुहिलं, यथा-'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते ॥१॥ ६ कलुषं वा द्रुहिलं, येन समता पुण्यपापयोरापद्यते, यथा-"एता-10 वानेव लोकोऽयं, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः॥१॥” इति, निस्सारं-परिफल्गु, यथा| वेदवचनं ७, अधिकं-वर्णादिभिरभ्यधिकं ८, तैरेव हीनमूनं ९, अथवा हेतूदाहरणाधिकमधिकं, यथा-अनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि ८, ताभ्यामेव हीनमूनं, यथा अनित्यः शब्दो घटवत् , अनित्यः शब्दः12 कृतकत्वादिति ९, शब्दार्थयोःपुनर्वचनं पौनरुक्त्यमन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं च, तत्र शब्दपुनरुक्तमिन्द्र इन्द्र इति, अर्थपुनरुक्तमिन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं यथा-देवदत्तो दिवा न भु बलवान् पट्विन्द्रियश्च, अर्थादापन्नं रात्रौ भुङ्क्ते इति, तत्र यो ब्रूयात्-दिवा न भुङ्क्ते रात्रौ भुङ्क्ते स पुनरुक्तमाह १०, व्याहतं नाम यत्र पूर्वेण परं ब्याहन्यते, यथा 'कर्म चास्ति फलं चास्ति, कर्ता नास्ति च कर्मणा' मित्यादि ११ अयुक्तम्-4 अनुपपत्तिक्षम, यथा-'तेषां कटतटटजानां मदबिन्दुभिः । प्रावर्तित नदी घोरा, हस्त्यश्वरथवाहिनी ॥२॥' इत्यादि १२, lain tan inte For Private & Personal Use Only Sriainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy