________________
त्यज्य, स च नापि रक्तेषु -अनुरक्तेषु रज्यते - प्रीतिं करोति, नापि द्विष्टेषु दोषमापद्यते, वर्त्तमानकालनिर्देशस्तत्कालापेक्षया, युक्तं चैतत् यतो मुनय एवंविधा एव भवन्ति ॥ तथा वाह
वंदिखमाणा न समुकसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा, मुणी समुग्धाइअरागदोसा || ८६६ ॥
वन्द्यमाना मुनयो न समुत्कर्षन्ति न समुत्कर्ष यान्ति, नापि हील्यमानाः - निन्द्यमानाः समुज्ज्वलन्ति - कोपाग्निं प्रकटयन्ति, किन्तु दान्तेन-उपशान्तेन चित्तेन धीरा मुनयः समुद्घातितरागद्वेषाश्चरन्ति ॥
Jain Education International
तो समणो जड़ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जणे असमो समो अ माणावमाणेसु ॥८६७॥
इह समण इति न केवलं श्रमण उच्यते, किन्तु प्राकृतशैल्या समनाः, अपिच समनाः 'तो'ति ततः - तदा भण्यते - | यदि शोभनं धर्म्मध्यानादिप्रवृत्तं मनो यस्यासौ सुमना भवति, तथा भावेन - आत्मपरिणामलक्षणेन न भवति पापमनाः, | निदानप्रवृत्तपापमना न भवतीति भावना, तथा खजने च भ्रात्रादिके जने वा - अन्यस्मिन् समः - तुल्यः, समश्च माना|पमानयोः ॥ तदा हि यथावस्थितमनोयुक्ततया समना इति वक्तुं शक्यते ॥
नत्थि अ से कोइ बेसो पिओ अ सर्व्वसु चैव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥ ८६८ ॥ - नास्ति 'से' तस्य साधोर्यदि कश्चनापि द्वेष्यः प्रियश्च सङ्घट्टनपरितापनोपद्रवणादिक्रियातो निवृत्ततया, सर्वेष्वेव जीवेषु
For Private & Personal Use Only
www.jainelibrary.org