SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ CREAM इशरीरभव्यशरीरव्यतिरिकं नोआगमतो द्रव्यतीर्थ मागधधरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-वाहोपशममिति, दाहो-बाह्यः सन्तापः तस्योपशमो यस्मिन् तद्दाहोपशमं 'तण्हावुच्छे(इछे)यण ति तपा-पिपासायाः छेदनं जलसङ्घातेन तदपनयनात्, तथा मलो बाह्यः अङ्गसमुत्थस्तस्य प्रवाहणं, प्रवाह्यतेऽनेनेति प्रवाहणं, जलेन तस्य प्रक्षालनात्, एवं त्रिभिरथैः कारणगतैनियुक्तं निश्चयेन युक्तं नियुकं-प्ररूपितं, यदिवा प्राकृतत्वात् सप्तम्यर्थे तृतीया, त्रिषु अर्थेषु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात् मागधादि द्रव्यतीर्थ, मोक्षसाधकत्वाभावात् ॥ सम्प्रति भावतीर्थमधिकृत्याहकोहम्मि उ निग्गहिए दाहस्सोवसमणं हवइ तत्थं । लोहम्मि उ निग्गहिए तण्हावुच्छेअणं होई ॥ १०७९॥ अट्टविहं कम्मरयं बहुएहिं भवेहिं संचिअंजम्हा । तव-संजमेण धोवइ तम्हा तं भावओ तित्थं ॥१०८०॥ इह भावतीर्यमपि आगमनोआगमभेदतोऽनेकप्रकारं, तत्र नोआगमतो भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोधे एव निगृहीते दाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति तथ्य-निरुपचरितं, नान्यथा, तथा लोभ एव निगृहीते 'तण्हावुच्छेयणं होति'त्ति तृषः-अभिष्वंगलक्षणायाः छेदन-व्यपगमो भवति, तथा अष्टविधं अष्टप्रकारं तकम्मैव जीवानुरंजनात् कर्मरजः बहुभिर्भवैः सञ्चितं तपःसंयमेन धाव्यते-शोध्यते यस्मात् तस्मात् प्रवचनं भावतीर्थम् ॥ ईसणनाणचरित्तेसु निउत्तं जिणवरेहिं सद्देहिं । एएण होइ तित्थं एसो अन्नोऽवि पजाओ ॥१०८१॥ दर्शनज्ञानचारित्रेषु नियुक्तं-नियोजितं सर्वैः ऋषभादिभिर्जिनवरैः-तीर्थकृद्भिः, यस्मादित्थंभूतेषु नियुकं तस्मात् ह भावतीर्थमपि आगमनोनय द्वेषानलजातस्यान्तः प्रशमन-व्यपगमो भवति, तथा अभावतीर्थम् ॥ भिर्भवैः सविलक्षणायाः छेदन तथ्य-निरुपचरितं, नामवचनमेव गृह्यते, Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy