SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ SCICROSONAGACM अयं चेह तावत् पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य उद्योतकरणशीला उद्योतकरास्तान्, केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दर्गतिप्रसतान जन्तन , यस्माद धारयते ततः। धत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥” तीयेते संसारसागरोऽनेनेति तीर्थधर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीला धर्मतीर्थकरास्तान, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजेतृत्वाजिनास्तान , अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहंतीत्यर्हन्तस्तान् अर्हतः, कीर्तयिष्यामिस्वनामभिः स्तोप्ये, चतुर्विशतिः सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलं ज्ञानमेषां विद्यत इति केवलिनः। तान केवलिनः, इति पदार्थः, पदविग्रहोऽपि यानि समासभाजि पदानि तेषु दर्शित एव । सम्प्रति चालनावसरः-तत्र सा तावत् तिष्ठतु , सूत्रस्पर्शनियुक्तिरेवोच्यते, स्वस्थानत्वात्, उक्कं च-"अक्खलियसंहियाई वक्खाणचउक्कए दरिसियंमि। सुत्तप्फासियनिजुत्तिवित्थरस्थो इमो होइ ॥१॥" चालनामपि चात्रव वक्ष्यामः, तत्र 'लोकस्योद्योतकरा'निति यदुक्तं तत्र लोकनिरूपणायाह नामंठवणादविए खित्ते काले भवे य भावे य । पज्जवलोगे य तहा अट्टविहो लोगनिक्खेवो ॥१०६९॥ नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोकः भावलोकः पर्यायलोकश्च, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्यः, न्यासार्थन्तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यलोकमभिधित्सुराह| ..जीवमजीवे रूवमरूवी सपएसमप्पएसे य । जाणाहि दवलोगं निचमनिचं च जं दवं ॥ १९७॥ (भा.) Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy