SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ चतुर्विज्ञत्यादेनि श्रीआव० मलयगि वृत्तौ सूत्रस्पर्शिका पः ॥५८९॥ SAMANAROSAN शोपिः कर्मक्षय इत्यनांतरं, इंहापि चतुर्विशतिस्तवाध्ययने भगवदहद्गुणोत्कीर्तनरूपाया भकेस त्वतोऽसावेव कर्मक्षयः प्रतिपाद्यते, तथा च वक्ष्यति-"भत्तीऍ जिणवराणं खिजंती पुषसंचिया कम्मा' इत्यादि, एवमनेन सम्बन्धेनायातस्यास्य चतविंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि प्रपञ्चतो वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विशतिस्तवाध्ययनमिति नाम, ततश्चतुर्विशतिस्तवाध्ययनशब्दाः प्ररूपणीयाः, तथाचाहचउवीसगत्थयस्स उ निक्खेवो होइ नामनिप्फन्नो। चउवीसगस्स छक्को थयस्स उचउकओ होइ॥१०६८॥ चविंशतिस्तवस्य निक्षेपो नामनिष्पन्नो भवति, स चान्यस्याश्रुतत्वादयमेव यदुत चतुर्विंशतिस्तव इति, तुशब्दो वाक्यभेदोपदर्शनार्थः, वाक्यभेदश्च अध्ययनान्तरवक्तव्यताया उपक्षेपादिति, तत्र चतुर्विशतिशब्दस्य निक्षेपः षड्डिधः, स्तवशब्दस्य चतुर्विधः, तुशब्दस्यानुक्तसमुच्चयार्थत्वादध्ययनस्य च, एष गाथासमासार्थः । अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यमवयवमधिकृत्य निक्षेपोपदर्शनार्थमाहनामंठवणादविए खित्ते काले तहेव भावे य । चउवीसगस्स एसो निक्खेवो छबिहो होई॥ १९२॥ (भा.) 'नाम'ति नामचतुर्विंशतिः स्थापनाचतुर्विशतिर्द्रव्यचतुर्विंशतिः क्षेत्रचतुर्विशतिः कालचतुर्विशतिस्तथैव भावचतुर्विशतिः, चतुर्विशतिशब्दस्य एषोऽनन्तरोदितो निक्षेपः षड़िधो भवति । तत्र नामचतुर्विशतिः जीवस्य अजीवस्य वा यस्य चतुर्विशतिरिति नाम क्रियते, चतुर्विशत्यक्षरावली वा, स्थापनाचतुर्विंशतिश्चतुर्विशतेः केषांचित्स्थापना, द्रव्यचतुर्विंश| तिश्चतुर्विशतिर्द्रव्याणि, सचित्ताचित्तमिश्रभेदभिन्नानि, तत्र सचित्तानि द्विपदचतुष्पदापदभेदभिन्नानि, अचित्तानि CHEC%ARRIERSPAREER ॥५८९॥ Jain Educational For Private & Personal use only Himaew.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy