________________
मा. सू. ९९
Jain Education Inter
अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनं ॥
तदेवमुक्कं सामायिकाध्ययनम् अधुना चतुर्विंशतिस्तवाध्ययनं प्रारभ्यते
- तत्राध्ययनोद्देशसूत्रारम्भेषु सर्वेष्वेव कारणाभिसम्बन्धो वक्तव्यावित्येष वृद्धप्रवादः, ततः प्रथमतः कारणमुच्यते, तच्चेदं - आत्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुणा सूत्रतोऽर्थतश्चावश्यकश्रुतस्कन्धः प्रदातव्यः स चाध्ययनस मुदायरूपः, तथा चोक्तम्- 'एत्तो एक्केकं पुण अज्झयणं कित्तइस्सामि' त्ति, प्रथमं चाध्ययनं सामायिकं, तच्चोपदर्शितम्, इदानीं द्वितीयं चतुर्विंशतिस्तवाध्ययनमारभ्यते, द्वितीयता चास्य द्वितीयावयवत्वात्, द्वितीयावयवत्वमप्यस्य सिद्धमाचार्योपदशिताधिकारगाथाप्रामाण्यात्, सा चेयम् - "सावज्जजोगविरई उक्कित्तण गुणवतो य पडिवत्ती । खलियस्स निंदणा वणतिगच्छ गुणधारणा चैव ॥ १ ॥ इयमत्र भावना-यथा किल युगपदशक्योपलम्भस्य पुरुषस्य दिदृक्षोः क्रमेणांगान्युपदयन्ते, एवमन्त्राप्यावश्यक श्रुतस्कन्धस्य क्रमेण सामायिकादीन्यङ्गान्युपदर्श्यन्ते इति इदमेव कारणमुद्देशसूत्रेष्वपि योज - नीयं एतदेव च सर्वाध्ययनेषु, न पुनर्भेदेन वक्ष्यामः, सम्प्रति सम्बन्ध उच्यते - इहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टं, इह तु तदुपदेष्टृणामई तामुत्कीर्त्तनं प्रतिपाद्यते, अथवा सामायिकाध्ययने तदासेवनात् कम्र्म्मक्षय उक्तः, यत उक्तं निरुक्तिद्वारे - " सम्मद्दिट्ठी अमोहो सोही सम्भाव दंसणं बोही । अविवज्जओ सुदिट्ठिति एत्रमाई निरुसाई ॥१॥"
For Private & Personal Use Only
jainelibrary.org