SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ * ARRIORSERIAL ASIRSIA तत्र सङ्केपतो भाष्यकार-टीकाकारादयः कृतवन्तः, विस्तरतस्तु चूर्णिकारादयः, तत्र सङ्केपत इद-योगनिरोधं कुर्वन् प्रथममेव याऽसौ शरीरसम्बद्धा मनःपर्याप्तिर्यया पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान्, तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवान् अनुत्तरेणाचिंत्येन निरावरणेन करणवीर्येण तद्व्यापार निरुणद्धि, तच्चैवम्-'पज्जत्तमेत्तसंनिस्स जत्तियाई जहण्णजोगिस्स । होति मणोदबाई तवावारो य जम्मत्तो ॥१॥ तदसंखगुणविहीणं समए समए निरंभमाणो सो।मणसो सबनिरोहं करेज संखेजसमएहिं ॥२॥' वाग्योगकाययोगनिरोधमप्येवम्-"पज्जत्तमेत्तबंदियजहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ॥१॥ सबबइजोगरोहं संखातीतेहिं कुणइ समएहिं । तत्तो य सुहुमपणगरस पढमसमयोववन्नस्स ॥२॥ जो किर जहन्नजोगो तदसंखेजगुणहीणमेक्केके । समए निरंभमाणो देहतिभागं च मुंचंतो॥३॥ रंभइ स कायजोगं संखातीतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीमावणामेति ॥४॥"विस्तरस्त्वेवम्-योगनिरोधं कुर्वन् प्रथमतो बादरकाययोगबलादन्तर्मुहूर्त्तमात्रेण बादरवाग्योगं निरुणद्धि, क्रमेणेति शेपः, 'आलम्बनाय करणं तदिष्यते तत्र वीर्यवतः', अत्र तदिति बादरतनुरूपं, बादरमनोयोगनिरोधानन्तरं च पुनरप्यन्तर्मुहूर्त स्थित्वा तत उच्छ्वासनिश्वासावन्तर्मुहूर्त्तमात्रेण निरुणद्धि, ततः पुनरप्यन्तर्मुहूर्त्त स्थित्वा सूक्ष्मकाययोगवलाद्वादरकाययोग निरुणद्धि, बादरयोगे हि सति सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात् , आह च-"बादरतनुमपि निरुणद्धि ततः सूक्ष्मेण काययोगेन । न निरुध्यते हि सूक्ष्मो योगः सति बादरे योगे ॥१॥" केचिदाहुः-बादरकाययोगवलाद् भाबादरकाययोग निरुणद्धि, युकिं चात्र वदन्ति, यथा कारपत्रिका स्वम्भे स्थितस्वमेव स्तम्भ छिनत्ति, तथा बादरकाय NAR Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy