SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभागमध्ये प्रवेशनेन द्रष्टव्यः, पुनरप्येतस्मिन् समयेऽवशिष्टस्य स्थितेरसक्येयभागस्यानुभागस्य चानन्तभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते, ततस्तृतीयसमये स्थितेरसङ्ख्येयान् भागान् हन्ति, एकं असंख्यातभागं मुश्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्तभागं मुंचति, अत्रापि प्रशस्तप्रकृत्यनु भागघातोऽप्रशस्तप्रकृत्यनुभागमध्ये प्रवेशनेनावसेयः, ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसङ्ख्येयभागस्य अनुभागस्य अचानन्ततमभागस्य बुद्ध्या यथाक्रममसख्येया अनन्ताश्च भागाः क्रियन्ते, ततश्चतुर्थे समये स्थितेरसडवेयान् भागान् हन्ति, दएकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते, प्रशस्तप्रकृत्यनुभागघातः पूर्ववदवसेयः, एवं च स्थिति घातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः सङ्ख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसङ्ख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयो बुद्ध्या यथाक्रममसङ्खोया अनन्ताश्च भागाः क्रियन्ते, ततोऽवकाशान्तरसंहारसमयेऽसङ्ख्येयान् भागान् हन्ति, एकं असङ्ख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति, एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण, समये २ स्थितिकण्डकानुभागकण्डकघातनात् , अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तमुहूर्तेन कालेन विनाशयति, पष्ठादिषु च समयेषु कण्डकस्य प्रतिसमयमेकैकं शकलं तावदुत्किरति यावदन्तर्मुहूर्तचरमसमये सकलमपि तत्कण्डकमुत्कीर्ण भवति, एवमन्तर्मुहर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च घातयन् तावद्वेदितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसङ्ख्येयान्यवगन्तव्यानि ॥ (REMIRMIRECARRIER Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy