SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ इत्यर्थः, ततश्च तथाभव्यत्वेन आवर्जितस्य-मोक्षगमनं प्रत्यमिमुखीकृतस्य करणं-क्रिया शुभयोगव्यापारणमावर्जितकरणम् , अपरे आवश्यककरणमित्यूचुः, तत्राप्ययमन्वर्थः-आवश्यकेन-अवश्यंभावेन करणमावश्यककरणं, तथाहि-समुद्घातं केचित्कुर्वन्ति, इदं त्वावश्यककरणं सर्वेऽपि केवलिनः कुर्वन्ति, अन्ये आवर्जीकरणमिति वा पठन्ति, आवयं आव| वा ध्यण घञ् वा, मोक्षं प्रति अभिमुखीकर्त्तव्य इत्यर्थः, तस्य करणम् , अतत्तद्भावविवक्षायां चिप्रत्यये आवर्जीकरणमिति वा॥ सम्प्रति समुद्घातादिस्वरूपप्रतिपादनार्धमाह दंड कवाडे मंथंतरे य संहरणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिझणा चेव ॥९५५ ॥ ___ इह समुद्घातं कुर्वन् प्रथमसमये बाहल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति, द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वाऽऽत्मप्रदेशानां प्रसारणात् पार्श्वतो लोकान्तगामि कपाटं करोति, तृतीये समये तदेव कपाटं दक्षिणोत्तरं पूर्वापरं वा दिगदयप्रसारणात् मथिसदृशं मन्यानं लोकान्तप्रापिणमारचयति, एवं च प्रायो लोकस्य बहु पूरितं भवति, मन्थान्तराण्यपूरितानि, जीवप्रदेशानामनुश्रेणि गमनात् , चतुर्घसमये तान्यपि मन्यान्तराणि सह लोकलिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवति, तदनन्तरं यथोक्तक्रमात् प्रतिलोमं संहरन् पञ्चमे समये मन्थान्तराणि संहरति, जीवप्रदेशान् सकर्मकान् मन्थान्तरगतान् सङ्कोचयतीत्यर्थः, षष्ठे समये मन्धानमुपसंहरति, धनतरसङ्कोचात् , सप्तमे समये कपाटं, दण्डात्मनि सङ्कोचात्, अष्टमे समये दण्डमुपसंहृत्य शरीरस्थो भवति, अमुमेवाथ | सचेतसि निधायोकं दण्डकपाटान्तरमन्थान्तराणि संहरणेन, प्रतिलोममिति गम्यते, शरीस्थ इति पचनात्, न चतत्व CCCACACANCRCRA. LAMA Jain Educatonin For Private & Personal Use Only tainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy