________________
+
S
+3
4% 95
वैकमस्ति न पापं, तदेव धावाधप्रकर्षावस्थं स्वर्गाय क्षीयमाणं मनुष्यतिर्यग्नरकादिभवफलाय, तदशेषक्षयाच मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनादुत्कृष्टमारोग्यसुखं भवति, किश्चित्पथ्याहारपरिवर्जनाचारोग्यसुखहानिः,अशेषाहारपरिक्षयाच्च सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं, न पुण्यमस्ति, तदेव चोत्तमास्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तिर्यगरामरभवायेति, तदत्यन्तक्षयाच मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात् परममनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखं, अशेषपरित्यागात् मृतिकल्पो मोक्ष इति, अन्येषां तुभयमप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यहेतुफलभूतं, तथाहि-नैकान्ततः किल संसारिणः सुखं दुःखं वाऽस्ति, देवानामपि घेादियुक्तत्वात् , नारकाणामपि वा पञ्चेन्द्रियत्वानुभवात् , इत्थंभूतपुण्यपापाख्यवस्तुक्षयाच मोक्ष इति, अपरेषां तु स्वतन्त्रमुभयं विविक्त-15 सुखदुःखकारणं, तत्क्षयाच निःश्रेयसावातिरिति, तदेवं दर्शनानां परस्परविरुद्धत्वेनाप्रमाणत्वादस्मिन् विषये प्रमाणाभाव इति । तथा 'पुण्यः पुण्येने त्यादिना प्रतिपादिता तत्सचा, ततः संशयः, तत्र वेदपदानां चार्थ, चशब्दात
युक्ति हृदयं च, न जानासि, यतस्तेषामयमर्थः, तत्र यथा द्वितीयगणधरवक्तव्यतायां वेदपदानामर्थः स्वभावपक्षनि-18 निराकरणप्रवणोऽभिहितस्तथाऽत्र वकन्यः, सामान्यकर्मसिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं परस्पर
विरुद्धत्वेन मन्यसे तदसाम्प्रतम्, एकस्य प्रमाणत्वात्, तथाहि-पाटलिपुत्रादिविविधस्वरूपाभिधायकाः सम्यक्स्वरूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते, तत्र यत्प्रमाणं तत् अप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न तावत्पुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टत्वात् , स्वल्पस्यापि स्वल्पसुख
AX%
%
%
%
%E-EXAKA
+%
Jain Education International
For Private & Personal use only
www.jainelibrary.org