________________
श्रावश्यके श्रीमलय
मवसरणे
॥३३१॥
किं मने नेरइया अत्थी नत्थिन्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ ६२८ ॥ नरान् स्वयोग्यान् कायन्ति-शब्दयन्ति आकारयन्तीति नरकास्तेषु भवा नारकाः, ते नारकाः किं सन्ति उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धपदश्रुतिसमुद्भवो वर्त्तते तानि चामूनि वेदपदानि - 'नारको वै एष जायते यः शूद्रान्नमश्नाति इत्यादि, अस्यायमर्थः - 'एषः' ब्राह्मणो नारको जायते यः शूद्रान्नमश्नातीत्यादीनि किल वेदवाक्यानि नारकसत्ताप्रतिपादकानि, 'नह वै प्रेत्य नारकाः सन्ती'त्यादीनि तु नारकाभावप्रतिपादकानि तथा सौम्य ! त्वमित्थं मन्यसे - देवा हि चन्द्रादयस्तावत्प्रत्यक्षा एव, अन्येऽपि औपयाचितकादिफलदर्शनतोऽनुमानतोऽवगम्यन्ते, नारकास्त्व५ भिधानव्यतिरिक्तार्थशून्याः कथं प्रत्येतव्या इति तदभावः, तथा चात्र प्रयोगः- न सन्ति नारकाः साक्षादनुमानतो वाऽमैं नुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, तत्र 'वेदपदानां चे'त्यादि, तत्र वेदपदानामर्थं चशब्दाद्युतिं भावार्थे च न जानासि, यतस्तेषां वेदपदानामयमर्थः- ये खलु निरुपाधितपःसंयमादिना उपचितपुण्यप्राग्भारास्ते न ह वै-न प्रेत्य-परलो के नारकाः सन्ति-भवन्ति जायन्ते तेषां स्वर्गसत्कुलप्रत्यायातिपरम्परया केषाञ्चित्तद्भवेऽपि मोक्षगमनात्, ततो नामूनि नारकाभावप्रतिपादकानि वेदपदानि, किन्तु पुण्यवतां नारकभवनप्रतिषेधकानीत्ययुक्तः संशयः, तथा सौम्य ! ते नारकाः कर्म्मपरतन्त्रत्वादिहागन्तुमशक्ताः भवद्विधानामपि कर्म्मपरतन्त्रत्वादेव तत्र गमनशस्त्यभावः, ततो न युष्मादृशां तदुपलब्धिः, क्षायिक ज्ञानसम्पदुपेतानां तु वीतरागाणां ते प्रत्यक्षा एव, अपास्तसमस्तावरणतया समस्तवस्तुज्ञानोपेतत्वात्, न च वाच्यमशेषपदार्थविद एव क्षायिकज्ञा न सन्तीति, यतो ज्ञस्वभाव आत्मा. केवलं यथा ज्ञानावरणीयस्य कर्मणः
Jain Education International
For Private & Personal Use Only
अकंपितः
तारक
सिद्धिः
॥३३१॥
www.jainelibrary.org