SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मा.सू. ५६ किं पुनः शेषर्द्धिसमुदाया इत्यनित्यत्वभावनाप्रतिपादकमिदं वाक्यं, न तु देवसत्तानिषेधकमिति तथा स्वच्छन्दचारिणोऽप्यमी यदिह नागच्छन्ति तत्रेदं कारणं-नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमतया विषयप्रसक्तत्वात्, प्रकृष्टरूपगुणस्त्रीप्रसक्तविच्छिन्नर म्यदेशान्तरगत मनुष्यवत्, तथा असमाप्तकर्त्तव्यत्वात्, बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीत पुरुषवत्, तथा अनधीनमनुजकार्यत्वात् नारकवत् अनभिमतगेहादौ निःसङ्गयतिवद्वेति, अशुभत्वान् नरभवस्य तदगन्धासहिष्णुतया नागच्छन्ति, कडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषात् भवान्तररागतश्च क्वचिदागच्छन्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविमानप्रत्यक्षत्वात् तद्वासिसिद्धिरिति कृतं प्रसङ्गेन, छिन्नं संसयंमी जाइजरामरणविप्यमुक्केण । सो समणो पवइओ अदुट्ठहिं खंडियस एहिं ॥ ६२५ ॥ व्याख्या पूर्ववत् । ॥ सप्तमो गणधरः समाप्तः ॥ Jain Education International ते पचइए सोउं अकंपिओं आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ।। ६२६ ।। व्याख्या पूर्ववत्, नवरमत्राकम्पिक आगच्छति - जिनसकाशमिति नानात्वम् । आहो प जिणेणं जाइजरामरणविप्यमुक्केणं । नामेण य गोत्तेण य सबब्रूसवदरिसीण ॥ ६२७ ॥ अस्याः सपातनिका व्याख्या प्राग्वत् । For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy