________________
दृश्यप्रापकानि ततः संशयः, अन्यच्च-यचेऽभिप्रायो यथा कारणानुरूपं कार्य भवति, न खलु शालिबीजात् गोधूमा
कुरप्रसूतिः, ततो भवान्तरसादृश्यमेवोपपत्तिमत्, तत्र वेदपदानामर्थ चशब्दात् युक्ति भावार्थ च न जानासि, तेषां हवेदपदानामयमर्यः-पुरुषः खल्विह जन्मनि स्वभावेन माईवाजवादिगुणयुक्तो मनुष्यनामगोत्रकर्मणी बद्दा मृतः सन् पुरु
पत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभावमायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बवा मृताः सन्तः.पशुब्वमासादयन्ति, न तु नियोगतः, जीवानां गतिविशेषस्य कर्मसापेक्षत्वात् , शेषाणि तु वेदपदानि सुगमानि, न. च नियमतः कारणानुरूपं कार्य, वैसदृश्यस्यापि दर्शनात्, तथाहि-शृङ्गाच्छरो जायते, तस्मादेव सर्षपानुलिप्तानु तुणानीति, गोलोमाविलोमभ्यां दूर्वा, ततो न नियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो भवाड्रबीजं सात्मकं कर्म, तच्च तिर्यग्नरामरनारकायुष्कादिभेदभिन्नत्वात् चित्रम्, अतः कारणवैचिंत्र्यात कार्यवै-31 चित्र्यमिति, वस्तुस्थित्या तु सौम्य ! किञ्चिदिह लोके परलोके वा न सर्वथा समानमसमानं वाऽस्ति, तथा चेह भवे युवा निजैरप्यतीतानागालवृद्धादिपर्यायैः सर्वथा न समानोऽवस्थाभेदग्रहणात्, नापि सर्वथाऽसमानः सत्ताद्यनुगमात्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानः, शरीरान्तरादिभावात्, नापि सर्वथाऽसमानो जीवत्वाद्यन्व. | यात् , इत्थं चैतदङ्गीकर्त्तव्यमन्यथा दानदमदयादीनां वैयर्थ्यप्रसङ्गात् । एवं भगवताऽभिहिते स किं कृतवानित्याह
छिन्नंमि संसयंमी जाइजरामरणविप्पमुक्केण । सो समणो पवइओ पंचहिं सह खंडियसएहिं ॥१६॥ व्याख्या पूर्ववत् ॥
॥पञ्चमो गणधरः समाप्तः ॥
*CANAGAR
नतिनरामरनारकायुष्का वा न सर्वथा समानाम सर्वथाऽसमानानाजीवत्वायन्व
TKAARA%ACCN
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org