________________
यलाभो ॥१॥" (२१४१ विशे.) अत्रोच्यते-प्राक् लेश्याद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्यामधिकृत्य |* मतिश्रुतज्ञानलाभ उक्तः, ततः स तेजःप्रभृतिष्वेव लेश्यासु घटते, इह स्ववस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामधिकृत्य सम्यक्त्वश्रुतयोः प्रतिपद्यमानक उक्तः, ततः स कृष्णादिष्वपि लेश्यासु घटते, कृष्णादिद्रव्यरूपद्रव्यलेश्यायामवस्थि-टू तायामपि तेजोलेश्यादिद्रव्यसम्पर्कतः प्रतिभागादिमात्रभावेन तेजोलेश्यादिपरिणामसम्भवतो विरोधाभावात्. तथाहिसप्तमपृथिवीनरयिकादेराभवमवस्थितास्वपि कृष्णादिद्रव्यलेश्यासु तेजोलेश्यादिद्रव्यसम्पर्कतः स्वस्वाकारभावमात्रमुपजायते, उक्तं च प्रज्ञापनायाम्-'से णूणं कण्हलेसानीललेसंपप्प नोतारूवत्ताए नो तावन्नत्ताए नोतारसत्ताए नो ताफासत्ताए भुज्जो भुजो परिणमइ ?, हंता गोयमा! किण्हलेसा नीललेसं पप्प जाव नो परिणमइ, से केणद्वेणं भंते ! एवं वुच्चइ किण्हलेसा नीललेसं पप्प जाव नो परिणमइ, गोयमा! आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया, कण्हलेसा णं सा, नो खलु नीललेसा, तत्थ गया उस्सकइ, से एएणडेणं गोयमा! एवं वुच्चइ किण्हलेसा नीललेसं पप्प जाव नो परिणमई" अत्र आकार एव भाव आकारभावः, आकारभाव एवाकारभावमात्रा, मात्राशब्दः खल्वाकारभावव्यतिरिक्तप्रतिबिम्बादिधर्मान्तरप्रतिषेधवाचकः, तेन आकारभावमात्रयाऽसौ स्यान्नीललेश्या, नतु तत्स्वरूपापत्तितः, तथा प्रतिरूपो |भागः प्रतिभागः, प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमात्रा, अत्र मात्राशब्दो वास्तवपरिणामप्रतिषेधवाचकः, तया प्रतिभागमात्रयाऽसौ नीललेश्या स्यात् नतु तत्स्वरूपतः, स्फटिक इवोपधानवशादुपधानरूप इति दृष्टान्तः, ततः स्वरूपेण कृष्णलेश्येवासो, न नीललेश्या,
किंह, वत्र गता उत्पति, तत्र मता-तत्रस्था तत्स्वरूपस्था इत्यर्थः, नीललेश्यादिक
Jain Education Interra
For Private & Personal use only
H
Dainelibrary.org