SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यक मलच० वृत्तौ उपोद्घाते ॥४४६॥ Jain Education Inte गर्भजमनुष्यः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नः सम्भवति नतु प्रतिपद्यमानकः, उत्कृष्टावगाहनस्तु विगव्यूतप्रमाणः सन्यक्त्वश्रुतयोः पूर्वप्रतिपन्नः नियमादस्ति, प्रतिपद्यमानस्तु भाज्यः, देशविरति सर्वविविरतिसामायिकयोस्तु द्वावपि जघन्योत्कृष्टावगाहनावुभयविकलौ, नारकदेवा अपि जघन्यावगाहनाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नाः सम्भवन्ति, नतु प्रतिपद्यमानकाः, मध्यमावगाहना उत्कृष्टावगाहनाश्च पूर्वप्रतिपन्ना नियमतः प्रतिपद्यमानकाः सम्भवास्पदं तिर्यक्पञ्चेन्द्रियाः | जघन्यावगाहनाः सम्यक्त्व श्रुतयोः सम्भविनः, प्रतिपद्यमानकास्तु नैव, मध्यमावगाहना उत्कृष्टावगाहनाश्च यथासत्यं त्रयाणां सर्वविरतिवर्णानां द्वयोः सम्यक्त्वश्रुतसामायिकयोः प्रतिपद्यमानकाः सम्भविनः, पूर्वप्रतिपन्ना नियोगतः । गतं द्वारत्रयम्, अधुना लेश्याद्वारप्रतिपादनार्थमाह सम्मत्तसुअं सङ्घासु लहइ सुद्धासु तीसु अ चरित्तं । पुछपडिवन्नओ पुण अन्नयरीए उ लेसाए ॥ ८२२ ॥ (सम्यक्त्वं च श्रुतं चेत्येकवद्भावः सम्यक्त्वश्रुतसामायिके कृष्णादिकासु शुक्लान्तासु षट्सु लेश्यासु लभते प्रतिपद्यमानः सम्भवतीति भावः, चारित्रं पुनर्द्देशविरतिलक्षणं सर्वविरतिलक्षणं वा शुद्धासु तेजःप्रभृतिष्वेव चशब्दस्यावधारणार्थत्वात्, लभते इति वर्त्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वारं निरूपितम्, अधुना प्राक्प्रतिपन्नमधिकृत्याह - 'पुञ्चपडिवन्नतो' इत्यादि, पूर्वप्रतिपन्नकः पुनरन्यतरस्यां लेश्यायां कृष्णाद्यभिधानायां भवति, आह-मतिश्रुतज्ञानलाभचिन्तायां | शुद्धासु तिसृषु तेजःप्रभृतिषु प्रतिपद्यमानक उक्तः, ततः कथमिदानीं सर्वास्वभिधीयमानः सम्यक्त्व श्रुतसामायिकयोः प्रतिपत्ता न विरुध्यते ? इति उक्तं च- "नषु मइसुयाइलाभोऽभिहितो सुद्धासु तीसु लेसासु । सुद्धासु असुद्धासु य कहमिह सम्मत्तसु For Private & Personal Use Only कद्वारे संस्थानादि ॥४४६॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy