________________
BOORNAKANGAROKARAN
है अपान्तरालेऽभिहितः ?, उच्यते, मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवतीति न्यायप्रदर्शनार्थ, गतं कतिविधमिति द्वारम् , इदानीं कस्येति द्वारावसरः, तत्र यस्य तद्भवति तदभिधित्सुराहजस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलिभासिअं॥७९६॥
यस्य साधोरात्मा-जीवः, 'सामाणिओ'त्ति समानीतः-सकारस्य सूत्रे दीर्घः प्राकृतत्वात् , सम्यक् सन्निहितीकृतः, स्ववीर्योल्लासविशेषेणेति गम्यते, व समानीत इत्याह-संयमे-मूलगुणेषु नियम-उत्तरगुणेषु तपसि-द्वादशप्रकारेऽनश६ नादिलक्षणे, तस्यैवंभूतस्याप्रमादिनः सामायिक भवति, इतिशब्दः परिसमाप्त्यर्थः, एतेषु त्रिषु संयमादिषु ( समाहितस्य ) सम्पूर्ण सामायिक भवतीति केवलिभिः-सर्वज्ञैर्भाषितम् ॥ जो समो सवभूएसुं, तसेसु थावरेसु य । तस्स सामाइ होइ, इइ केवलिभासि ॥ ७९७ ॥
यः समो-मध्यस्थः आत्मा, त(स्व)मिव परं पश्यतीति भावः, सर्वभूतेषु-सर्वेषु प्राणिषु, तद्यथा-त्रसेषु-द्वीन्द्रियादिषु स्थावरेषु-पृथिव्यादिषु तस्य सामायिकं भवति, इति-एतावत् केवलिभिर्भाषितं ॥ सम्प्रति फलदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाह
सावजजोगप्परिवजणहा, सामाइअं केवलिअं पसत्थं ।
गिहत्थधम्मा परमंति नचा, कुजा बुहो आयहिअं परत्था ।। ७९८ ॥ सावधयोगपरिवर्जनार्थ सामायिक केवलिकमिति-पूर्ण प्रशस्तं-पवित्रम् , आत्मनः पवित्रीकरणात् , तथा गृहस्थधर्मात्
Jain Education Inte
For Private & Personal use only
A
w.jainelibrary.org